पृष्ठम्:नवरात्रप्रदीपः.djvu/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
पारणनिर्णयः

 इत्यादिवाक्येषु नवरात्रशब्देनैव तदुपादायोपवासविधानान्नवममभिव्याप्योपवाससिद्धौ दशम्यां पारणमर्थतः सिञ्चति । ननु तिथिह्रासवृध्यादौ रात्रीणां नवसङ्ख्यात्वाभावेन नवरात्रसमाख्याऽयोगात्कथ तया विनियोग इति चेत् तुल्यमेतत् । भवतोऽपि ह्रासवृध्यादैौ नवरात्ररूपकालसम्बन्धस्य प्रवृत्तिनिमित्तस्याऽभावे कथं नवरात्रशब्दवाच्यता कर्मणः स्यात् । तत्र यदि रात्रिशब्दस्य तिथिपरतामङ्गीकृत्य नवतिथिसम्बन्धेन नवरात्रशब्दे प्रवृत्तिरिति वाच्यम् । तर्हि प्रकृतेऽप्येतत्तुल्यम् । तदेवं ‘नवरात्रोपवासेन” इत्यादौ उपत्रासेष्ववच्छेदकसङ्ख्याकाङ्क्षायां तिथ्यवच्छेदिकयैव सङख्ययोपवासपरिच्छेदान्नवमीपर्यन्तत्वेन दशम्यां पारणमर्थसिद्धमेवेति। उक्तं च धौम्येन-
 प्रतिपदादिपूर्णन्तं दिनभेदेन पूजयेत् । इति । अत्र च पूर्णायां दशम्यमन्तश्रवणात्पारणायाश्च व्रतान्तरूपत्वाद्दशम्यां पारणमिति। अत्रोच्यते । स्यात्समाख्ययैवोपवाससङ्ख्यानिर्णयः,यद्युपवासेष्ववच्छेदकसङ्ख्याकाङ्क्षायां प्रमाणान्तरं सङ्ख्याप्रापक न स्यात् । अ‌-