द्वितीयदिने च क्षयवशादष्टमी नास्त्येव । किं तु नवम्येव सर्वा । तत्र सप्तमीविद्धाऽष्टमीपरिहारेऽष्टमीकृत्यमात्रलोपप्रसङ्गः । तन्निराकरणार्थं सप्तमीविधायकानि वाक्यानि प्रवृत्तानि । तदुक्तं नृसिंहप्रसादे--
सूर्योदये यदा न स्यान्नवमी चाऽपरेऽहनि ।
तदाऽष्टमीं प्रकुर्वीत सप्तमीसहितां नृप! ॥ इति ।
उत्तरास्तिथयो यत्र क्षयं यान्ति नराधिप !।
पूर्वाष्टमी तदा कुर्यादन्यथा चाऽशुभं भवेत् ॥ इति ।
तथा च षड्दण्डाऽधिकसप्तमीवेधे परदिने चाऽष्टमीसद्भावे नवमीयोगप्रशस्तत्वात्परैवेति पूर्ववाक्यानां विषयः । अत एवोक्तमौर्वेण--
सप्तमी बहुला यत्र परतश्चाष्टमी भवेत् ॥
तेन शल्यमिदं प्रोक्तं पुत्रमैत्रधनक्षयम् ॥ इति ।
अत्र च यावत्सप्तमीसद्भावे परदिनेऽष्टमी भवति तावती सप्तमी शल्यमित्युच्यते न सप्तमीमात्रम् । तथा च सप्तमीशल्यं निषेधन्ति भोजादिवाक्यान्यपि लब्धविषयाणि । यान्यपि सामान्यत एव सप्तमीयोगं निषेधन्ति तान्यपि शल्याऽभिप्रायाण्येव । उपसंहारन्यायात् । नन्वेवमु-