पृष्ठम्:नवरात्रप्रदीपः.djvu/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
अष्टमीनिर्णयः

भयविधाऽष्टमीविधायकवाक्यस्वास्थ्येऽप्युभयविधाऽष्टमीनिन्दकानि दुस्थान्येवेति चेत्, न । निन्दकानामुभयत्राऽपि स्वस्वविधेयस्तावकत्वात् । तथा च प्रधानविधायकस्वास्थ्ये तद्गुणानां निन्दाऽर्थवादानां सुतरां स्वास्थ्यमेवेति । तस्माद्विशेषवचनबलेनैवोभयेषां वाक्यानां विरोधपरिहारेण व्यवस्था प्रामाणिकैः करणीया । एवं च सति यत्केनचिद्दिवोदासोदाहृतविशेषवाक्यानाममूलतामुक्त्वा तदितरेषा च सामान्यवाक्यतया विश्वरूपोदाहृतविशेषवाक्यैर्बाधितत्वेन महाष्टम्यतिरिक्ताष्टमीविषयत्वं प्रावोचि, तदतिमात्रेण वचनविरोधपरिहाराऽसामर्थ्यमात्मीयमपह्नुवानस्य शिष्यबन्धनमात्रम् । न हि प्रामाणिका धर्मनिरूपणे प्रवृत्ता अमूलकैर्वाक्यैर्धर्मं विप्लावयन्ति । तथात्वे निर्णयमात्रोच्छेदप्रसङ्गः । तादृशानाऽश्वासस्य सर्वत्राऽपि सम्भवात् । न च मुनिनामानुदाहरणादमूलत्वमिति वाच्यम् । परमशिष्टाऽऽचार्यस्याऽऽर्यस्य विज्ञानेश्वरस्याऽपि कृतौ शतशस्तथाविधानां दर्शनात् । तस्मादुक्तव्यवस्थैव ज्यायसीति । यदपि कैश्चिदुक्तं सप्तमीविद्धाऽष्टमीविधायकानि वाक्यानि कृष्णा-