पृष्ठम्:नवरात्रप्रदीपः.djvu/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
अष्ठमीनिर्णयः

त्यज्योत्तरैव तच्छून्योपादेयेति । एवं हेतुमुक्त्वा तन्मूलमाह--

 पुत्रान् हन्ति पशून् हन्ति हन्ति राष्ट्रं सराजकम् ।
 हन्ति जातानजातांश्च सप्तमीसहिताऽष्टमी ॥

  तस्मात्सर्वप्रयत्नेन सप्तमीवेधसंयुता ।
  वर्जनीयाऽष्टमी पार्थ! भुवो राज्यमभीप्सुभिः ॥इति।

दिवोदासस्तु विशेषवचनबलादेवेतमर्थमुपोद्वलयति स्म । यथा--

  जम्भेन सप्तमीयुक्ता पूजिता सा महाऽष्टमी ।
  इन्द्रेण निहतो जम्भस्तेन दानवपुङ्गवः ।
  तस्मात्सर्वप्रयत्नेन सप्तमीमिश्रिताऽष्टमी ।
  वर्जनीया हि मनुजेैरात्मनः शुभकाङ्क्षिभिः ॥
  सप्तमीशल्यसंयुक्तां मोहादज्ञानतोऽपि वा ।
  महाष्टमीं प्रकुर्वाणो नरकं प्रतिपद्यते ।। इति ।

 महाष्टमीत्वं चास्याः कालिकापुराणे प्रतिपादितम्—

  आश्विनस्य तु शुक्लस्य या भवेदष्टमीतिथिः ।
  महाऽष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा ॥