पृष्ठम्:नवरात्रप्रदीपः.djvu/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
नवरात्रपदीपे-

 भोजराजोऽपि--

  अष्टम्यां पूज्यते रुद्रो नवम्यां शक्तिरर्च्यते ।
  उमाया नवमी प्रोक्ता हरस्य तिथिरष्टमी ॥
  द्वयोर्योगे महापुण्या उमामाहेश्वरी स्मृता। इति ।

 तदेवं नवमीयुक्तैवाऽष्टमी ग्राह्येति सिद्धम् । अत एव सप्तमीविद्धाऽष्टमीनिषेधोऽपि श्रूयते— सप्तम्या चाऽष्टमी विद्धा न कर्तव्या शिखिध्वज! । इति। भोजराजेनाऽपि सप्तमीवेधाभावो नवमीविद्धाऽष्टमीग्रहणे हेतुरुक्तः ।

  न दिवा न निशाऽपि च विष्टिहता
   न च सप्तमीशल्यसमोपहता ॥
  यदि चाष्टमीशेषभवाऽनवमी
   अमरैरपि पूज्यतमा नवमी ॥ इति ।

 अस्यार्थः --
 अष्टम्या उपरि यदि नवमी लभ्यते तदा साऽष्टमी अनवमी सर्वोत्कृष्टा अमरैरप्यतिशयेन पूज्या। तत्रैव हेतुमाह यतो दिवा निशाऽपि विष्टिहता न, सप्तमीशल्योपहताऽपि नेति । अतो दोषद्वयवतीं पूर्वाऽष्टमीं परि-