पृष्ठम्:नवरात्रप्रदीपः.djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
नवरात्रपदीपे-

ज्योतिःशास्त्रे--

 ऋक्षत्रये च मूलादौ सप्तम्यामाश्विने सिते ।
 चण्डिकामुपहारैश्च पूजयेद्राष्ट्रवृद्धये ॥
 कुर्याज्जागरमष्टम्यां नवम्यां विधिवद्बलिम् ।
 दशम्या बलवृध्यर्थं कुर्यान्नीराजनं नृपः ॥
 मूलेनाऽऽवाहयेद्देवीं पूर्णेन प्रतिपूजयेत् ।
 उत्तरेणाऽर्चनं कृत्वा श्रवणेन विसर्जयेत् ॥

अत्र तिथिनक्षत्रयोगो मुख्यः कल्पः । वियोगे तु - तिथिरेव मुख्या ।।

तिथिः शरीरं तिथिरेव कारणं
 तिथिः प्रधानं तिथिरेव साधनम् ।
नक्षत्रयोगादिषु सैव मुख्या
 ग्राह्या न लभ्येत यदा हि ऋक्षम् ॥

इतिज्योतिर्गर्गवचनादिति रूपनारायणो मन्यते । मध्यदेशीयसमाचारस्तु नक्षत्रयोगमादायैव जागर्त्ति । तन्मूलमन्वेषणीयम् । धवलनिबन्धे--

 मूलेनाऽऽगमनं देव्यः पूर्वाषाढासु पूजनम् ।
 उत्तरासु बलिं दद्याच्छ्रवणेन विसर्जयेत् ॥ इति ।