पृष्ठम्:नवरात्रप्रदीपः.djvu/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
सप्तम्यादिपूजाविधिः

   अथ सप्तम्यादिपूजाविधानम् ।
राजमार्त्तण्डे -

सप्तम्यां मूलयोगे प्रथमचरणगे पत्रिका पूजनीया
चाष्टम्या रात्रियोगे कृतनियमविधेर्यज्ञकर्म प्रदिष्टम् ॥
नानाजातेः पशोर्वा हतिरपि नवमीरौद्रयोगे प्रदिष्टा
सा पत्नी वैष्णवान्ते कृतविहितविधिः प्रेषयेत्तां दशम्याम् ॥

तथा -

मूल प्राप्य प्रथमचरणेऽभ्यर्चनं चण्डिकायाः
 कृत्वाऽष्टम्यामशनरहितस्त्यक्तनिद्रश्च पूजाम् ॥
प्रातःकाले पशुबलिविधिस्नानदानं दशम्यां
 निर्माल्यं तु श्रवणदशमीवासरान्ते विजह्यात् ॥

कात्यायनः -

मृलेन प्रतिपूजयेद्भगवतीं चण्डीं प्रचण्डाऽऽकृतिं
चाष्टम्यामुपवाससङ्गततया भक्त्या समाराधयेत् ॥
नानापाशवमज्जमांसरुधिरैः कृत्वा नवम्या बलिं
युक्ता च श्रवणेन तां च दशमीं सम्प्राप्य सम्प्रेषयेत् ॥