पृष्ठम्:नवरात्रप्रदीपः.djvu/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
नवरात्रव्रतविधिः

ब्रह्मणे निष्कषट्कं तु दद्याद् गोमिथुनद्वयम् ।
अस्याः प्रभावमतुलंश्लोकमुक्त्वा कृताञ्जलिः ॥

दद्याद्गोमिथुनान्यष्टावाचार्य तु भक्तिमान् ।
चतुर्विंशतिसङ्ख्याकैर्हैमगद्याणकैः सह ॥

एकैकमष्टविप्रेभ्यो दद्याद् गोमिथुनं समम् ।
निष्कत्रयसमायुक्तं वस्त्रालङ्कारभूषितम् ॥

सुस्थितं स्वासने शान्तं यजमानं महोत्सवम् ।
कुङ्कुमाक्ताक्षता दूर्वाः सुगन्धं चन्दनं दधि ॥

आदायादयते विप्र(?) आचार्यश्च सुपूजितः ।
स्तोत्राणां तु चतुर्णां तु महालक्ष्मीपरायणः ॥

एकैकं श्लोकमुच्चार्य दद्युराशिषमुत्तमम् ।
सभार्यः ससुनः पूर्णो लब्ध्वाऽऽशीर्वादमङ्गलम् ॥

रत्नपुष्पाञ्जलिं दद्याच्चण्डिकाया विसर्जनम् ।
भूरिदानं ततो दद्युः पुण्यवादित्रनिःस्वनैः ॥

प्रविशेच्छान्तिपाठैश्च तोरणाद्यं स्वमालयम् ।
शतचण्डीविधानस्य कृतेन सुकृतेन हि ॥
महालक्ष्मीर्ददात्यस्मै त्रैलोक्यसुखमुत्तमम् ॥