16 वक्षसिद्धिन्याख्या चैतत्तथा वक्ष्यामः । नन्विन्द्रियसंनिकर्षानन्तरभावात् तजन्यैव वनस्पति- बुद्धिः, न हस्तिबुद्धिजन्या ; ततः कथं तदपेक्षा सेत्युच्यत इत्याशङ्कयाह न इति ; वनस्पतिबुद्धेरित्यर्थः । कुत इत्याह- आपात इति । तस्या यदीन्द्रियसंनिकर्षमात्रात् वनस्पतिबुद्धेर्जन्म स्यात, अपाते प्रथममेव स्यात् ; न च भवति ; अतो नेन्द्रियसंनिकर्षमात्रातुं तस्या जन्म, किंतु हस्तिबुद्धि रपि हेतुत्वेनापेक्षितेति भावः । ननु मा भवतु केवलादिन्द्रियसंनिकर्षात् तस्या जन्म, देशविशेषसहितालु भविष्यति ; तथापि किमिति हस्तिबुद्धिर्वेतु नापेक्ष्यत इत्याशङ्कयाह--न च देशेति । तस्या जन्मेत्यनुवर्तते । । कृत इत्याह--तदेशस्यत । प्रथममभूतं वनस्पतिज्ञानं यत्र दूरस्थस्य पश्चात् समीपमुपसर्पतो भवति तत्र स्यादेवम्; यत्र तु तद्देशस्थस्यैव जायते तत्र न देशविशेषात् तस्य जन्मेत्यर्थः । स एव देशो यस्य पुंसः स तथोक्तः; यत्र देशे वनस्पतिज्ञानमापातोत्पन्नं तं ‘तत्’ इति परामृशति । यस्माद्धस्ति बुदिभ्यः प्राक् केवलात् देशविशेषसहिताच्चेन्द्रियसंयोगात् वनस्पतिबुद्धिर्न भवति, हस्तिदुद्यनन्तरं च भवति, तस्मादन्वयव्यतिरेकाभ्यां हस्ति बुद्धिसहितादिन्द्रियसंयोगात् सा भवतीति निधीयत इति सिद्धं हस्तिबुद्धी नामुपायत्वमित्युपसंहरति--तस्मादिति । प्राच्यः पूर्वभावी विपर्यासो भ्रान्ति- ज्ञानं तत्रानुगता हस्तिनमेव पुनः पुनः गृहती मतिसन्ततिः बुद्धिमाला तब्बः संस्कारः स एव सचिवः सहकारी यस्येन्द्रियसंयोगस्य तरकारिता सा वनस्पतिबुद्धिरित्यर्थः । यदा हि भ्रान्त्या हस्तिनं दृष्ट्वा आश्चर्यादिना प्रणिहितमनसः कस्यचित् तमेव हस्तिनं तेन तेन विशेषेण पुनः पुनः पश्यतो हस्तिविलक्षणविशेषप्रबोधमुखेनानभिसंहितमेव वनस्पतितवज्ञानमुदेति तदास्ति हस्तिनः पुनः पुनर्दर्शनस्य मातिसंततिनाम्नो वनस्पतितच्वज्ञाने निमित्त त्वम्; तथाहि-मिथ्याहस्तिनं सकृत् ज्ञात्वा तमुपेक्ष्य विषयान्तरसंचारिणो न तत्र तवज्ञानमुदेति । ननु मनःप्रणिधानमेवात्र तवज्ञाननिमित्तम् एवं तfई न तत्तवज्ञानमभिसन्धाय कृतम् अपि तु हस्तिनमेव पुनः पुनर्लतुम्। नन्वन्यार्थमपि भणिहितं मनोऽन्यत् ज्ञापयिष्यति, यथा घटायोन्मीलितं चक्षुः पटम्; न तर्हि घटपटज्ञानवत् युगपदेकत्र हस्तिज्ञानवनस्पतिज्ञाने संभवतः, विरोधात् । अतो मनः प्रणिहितं तवज्ञानं कुर्वदपि हस्तिज्ञान संततिपुरः-
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५२
दिखावट