सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्डः 115 करोति.; अपकृष्टसामर्थं चोत्कृष्टसामथ्र्येन बाधितमप्रमाणीभवति । तेन न सापेक्षत्वमात्रमप्रामाण्यहेतुः, अपि तु कार्ये सापेक्षस्वम्; तच्च शब्दस्यापि नास्ति ; अतो न शब्दस्याप्रामाण्यामित्यमिप्रायः । इदानीं प्रत्यक्षाद्यधीनत्वादाम्नायस्वरूपसिद्धेरवश्यमाम्नायस्वरूपसिद्धये । तेषां प्रामाण्यमनुमन्तव्यम् । अतश्चास्नायविरोधे तेषामेव बलवस्वमुचितमिति तदनुमाषते--यस्विति । एवमनुभाष्य दूषयति—को वेति । सत्यमेषां प्रामाण्यमनुमन्तव्यम् किंतु देहात्मज्ञानघत व्यवहाराविसंवादलक्षणम् , न तवावेदनलक्षणमित्यर्थः । कः पुनर्विशेषहेतुः ? येन “ व्यावहारिकमेव प्रामाण्यमनुमन्यते, न तु तच्वावेदनलक्षणमित्याशङ्कच विषहेतुमाह- व्यावहारिकेति । व्यावहारिकभएपोपेतेभ्यः प्रत्यक्षेभ्यः सिडदानायादिति व्यवहाराविसंवादस्यास्नायसिद्यनुगुणस्वेनाविरोधादित्यबाध्यत्वे हेतुःतद्विरोधा दिति च तवदर्शनश्रुत्या बाध्यत्वे । अनेनेदमुक्तं भवति-प्रत्यक्षादिषु तवदर्शनबाध्यत्वा ।नैषां तवावेदनलक्षणप्रामाण्यमाम्नायेनानुमन्यते ; व्याव- हारिकं तु स्वानुगुणत्वादबाध्यम्; अतोऽनुमन्यत इति विशेषः । नन्विय माम्नायग्राहिणी प्रस्यक्षादिप्रतिपत्तिरुपायत्वादाम्नायजन्यया नवप्रतिपया- पेक्षिता । यद्वलेन यत्सिद्धिः तत्ततो बलवत्तरमुचितम्; तदुक्तम् –“ यद्वले नैव यत्सिद्धिः कथं तेंडुलवत्तरम् " इति । ततश्च प्रत्यक्षादिप्रतिपत्तिभ्र कथमा” कथं च विरोधं हि बाध्यबाधकभावो भवति ; न चोपायोपेययोः सोऽस्ति, अन्यथोपायो पेयभाव एव न स्यात्; तदुक्तम् - –“ न चात्महेतुमेवासौ सिद्धा बाधितु- मर्हति ” इत्येतत् व्यभिचारदर्शनेन दूषयति--दृष्टं चेति । पूर्वस्याः प्रतिपत्ते रिति पञ्चमी ; परस्य इति षष्ठी । तदुदाहरति-यथेति । वनस्पतिप्रति पत्तेरिति ; बलववमित्यनुषज्यते । ननु हेतुत्वेनापेक्षितायाः पूर्वप्रतिपत्तितः परप्रतिपत्तेर्बलवच्वमुदाहर्तव्यम् । न चेह वनस्पतिप्रतिपच्या हस्तिप्रतिपत्तयो हेतुत्वेनापेक्षिता इति प्रमाणमस्ति । अतः प्रकृताननुरूपमुदाहरणमित्या शङ्कच प्रकृततुल्यत्वमुदाहरणे तावप्रतिजानीते--अपेक्षिता हीति । हस्ति प्रतिपतय इति ; बीन तासां हेतुत्वम् नैकस्या इति दर्शयति । यय = ०