I! वक्षसिद्धिव्याख्या व्यवहारप्रतिघातहेतुस्तिमिरादिरित्यर्थः । एतदुक्तं भवति–न हि प्रत्यक्षादिषु प्रमाणान्तरगम्यों दोषः ; किं स्वाम्नायबलात् करुण्यः । अतस्तदनुसारेणैव स कल्पनामर्हति । आम्नायश्चादृतं दर्शयन् प्रत्यक्षादिप्रमेयद्वैतमात्रप्रतिपक्ष न व्यवहारं स्टशति । तेन तदनुसारेण दोषः कल्प्यमानोऽनृतदैतज्ञान जननसमर्थोऽविद्यासंस्कार एव करुप्यते, न व्यवहारविसंवादिज्ञानजनन समर्थस्तिमिरादिरिति । अतो दोषववेऽपि प्रत्यक्षादिषु व्यवहाराविसंवाद लक्षणं प्रामाण्यं देहमाभिमानवत् न विरुध्यते इत्युपसंहरति--तत इति । शब्दस्य च सदोषस्य प्रामाण्यं न स्यादिति । यदुक्तं तदप्युपसंहरति शब्दस्त्विति । तत्रैव पूर्वोक्तां युक्तिमपि स्सारयति-दृश्यते हीति । तच्व प्रतिघातस्य चेत्यत्र ‘शङ्कितत्वात्’ इत्यनुषज्यते । इदानीं पूर्वप्रकृतं प्रत्यक्षादि विरोधे शब्दस्य बलीयस्त्वमुपसंहरति-तस्मादिति । या हि प्रत्यक्षादिविरोधे सत्याम्नायस्याप्रामाण्यमाह स नियतमविरोधे सत्यदोषत्वेन तस्य प्रामाण्य- मभ्युपगच्छति; तथा सति निदषस्याम्नायस्य प्रागुक्तयुक्तिकार्पितदोषेभ्यः प्रत्यक्षादिभ्यो बलवच्वं युक्तमित्यर्थः । इदानीं प्रत्यक्षादिसापेक्षत्वादाग्नयस्तेभ्यो दुर्बल इति यदुक्तं तदनु भाषते-—यविति । तत्र दूषणमाह--तत्रेति । सत्यं शब्दस्य प्रत्यक्षादि विषयापेक्षास्ति ; न तु सा प्रमितौ खार्थपरिच्छेदे, किंतु स्वरूपसिद्धवि- त्यर्थः । एतदेव द्रढयति--अन्यथेति । यदि तु प्रमितौ शब्दस्य प्रत्यक्षा- घपेक्षा स्यात् तदा अनपेक्षालक्षणवात् प्रामाण्यस्य शब्दः प्रमाणमेव न स्यादित्यर्थः । यद्वा यदि स्वरूपसिद्धौ शब्दः प्रत्यक्षादि नापेक्षते, ततोऽ नवबुड प्रमामकुर्वन् प्रमाणमेव न स्यादित्यर्थः । यदि नाम प्रमितावन- पेक्षः शब्दःततः किमित्याह--तथा चेति । कार्यं प्रमितिलक्षणे शब्दस्य प्रत्यक्षाद्यनपेक्षत्वात् न शब्दः प्रत्यक्षादिभ्यो हीयते, प्रामाण्याविशेषादि त्यर्थः । ननु कार्येऽनपेक्षोऽपि शब्दः त्वरूपसिद्धौ प्रत्यक्षाद्यपेक्षते, न तु प्रत्यक्षादि शब्दम्; अतः किमिति तेभ्यो न हीयत इत्याशङ्कयाह प्रत्यक्षादयोऽपीति । स्वरूपसिद्धौ सापेक्षत्वं प्रत्यक्षादिष्वपीन्द्रियाद्यपेक्षत्वा दस्ति । न च तदनामाण्यमावहति ; 'यतः कुर्ये सापेक्षरवं सामर्दपक
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५०
दिखावट