110 प्रसिद्धिव्याख्या एवं मतद्वयेन बिरोधपरिहारप्रयोजनमुक्त्वा स्वमतमाह-अन्यादिति । आम्नायबलवव्वे न्यायमुपन्यस्यति-—पैर्वेति । “ अध्वर्यं निष्क्रामन्तं प्रस्तोता संतनुयात् , तमुद्राता, उद्रातारं प्रतिहर्ता, तं ब्रस, जर्मनी यजमानः” इति सोमयागे अन्योन्यहतनिग्रहेण संनतानामृत्विजां यज्ञशाः लातो निष्क्रमणं श्रुतम् । तत्र च नैमित्तिकं श्रूयते – “ यदि प्रस्तोताप- च्छिद्येत ब्रह्मणे वरं दत्वा स एव प्रवर्तितव्यः; यद्युद्गतापच्छिवेताद- क्षिणो यज्ञः संस्थाप्यः; यदि प्रतिहर्तापच्छिद्येत सर्ववेदसं देयम् ” इते ; अपच्छिद्यतेति विलिष्येतेत्यर्थः । तत उन्नतृप्रतिहर्ताः पौर्वापर्येणापच्छेद द्वये सति अतुल्यबलस्वाददक्षिणसर्वस्वदक्षिणयोश्च विरोधाद्विकल्पसमुच्चययो रसंभवात् किं पूर्वं बलवत् ? अथोत्तरम् ? इति संश्ये मुख्यत्वात् श्रुति लिङ्गादिवत् पूर्वबलीयस्वे प्राप्ते प्रत्याह— पौर्वापर्यं पूर्वदौर्बल्यं प्रकृति बत् " इति । श्रुतिलिङ्गादिषु पूर्वं शीघ्रभावित्वात् प्राप्तं सत् अप्राप्तमेव परं नाधते; तेन तत्र पौर्वापर्यमेव नास्ति, परस्यानुत्पत्तेः। इह तु परमपि प्रस्यक्षश्रुतिप्राप्तम् ; अतः पौर्वापर्यं नैमित्तिकद्वयस्य पूर्वस्य दौर्बल्यम्, पूर्वमनुषमृद्य परस्यानुत्पत्तेः ; अतस्तदेव बाध्यते, ‘ प्रकृतिवत ; यथा। प्राकृताः कुशा विनतावतिदेशप्राप्ताः प्रत्यक्षश्रुतैः शरैरपद्यन्ते तद्वदित्यर्थः। एतदेव भट्टवाक्यात्- द्रढयति-—पूर्वाबाधेनेति । ननु पौर्वापर्यं भवतु पूर्व- दौर्बल्यम् ; इह तु तदेव नास्ति, प्रत्यक्षाम्नाययोरनिदंप्राथम्यादित्याशी छूचाह - तथा हीति । सर्वस्य जन्तोः प्रत्यक्षादिनिबन्धनो विभक्तस्य भिन्नस्य वस्तुनः परिच्छेदो निसर्गजो जन्ममात्रसिद्ध इति भेदप्रत्ययस्य पूर्वत्वमुक्तम्; नयं विभक्तवस्तुतवपरिच्छेदस्तच्वतःकिंतु मायामात्रमिति बोतनार्थः किलशब्दः । अद्वैतावगमस्तु विभक्तपदपदार्थवस्तुप्रत्यक्षपरि- च्छेदापेक्षःअत एव तत्पूर्वकः, अत एवानिसर्गजोऽजन्ममात्रसिद्धः, अत एवागन्तुरुत्तरकालभावी कस्यचिदेव जनकादेर्भवति न सर्वजन्तोरति अत्रै तावगमस्य परत्वमुकम् । एवं द्वैताद्वैतज्ञानयोः पौर्वापर्यमुक्त्वा पूर्वस्य बाध्यत्वमाह- -स इति । आम्नायबलचस्वे हेत्वन्तरमाह-इतश्चेति ; आम्नायो बलवानित्यनुवर्तते । कुत इत्याह--संभवदिनि ; संभवन्तो विचित्रा नानाभूतास्तिमिरादयो विभ्रमहेतवो येषु ते तथोक्ताः । विगलिता
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४६
दिखावट