पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तकाण्डः 109 दीनां तैर्विरोधे तु सुतरां दुर्बभप्रामाण्या इत्यर्थः । उपतंहरति-तस्मादिति । यस्मात् प्रत्यक्षादिविरोधे वेदान्तानामप्रामाण्यं प्रसज्यते तस्मादित्यर्थः सति विरोधे प्रत्यक्षादीनामाम्नायवाचकत्वे हेत्वन्तरमाह-मुख्यत्वादिति । प्रत्यक्षादीनां प्राथम्यादित्यर्थः । प्राथम्यमाह-—मुख्या हीति । जातमात्रस्य जन्तोः प्राणिनो मुख्याः पूर्वभचिनः प्रत्यक्षादयः व्युत्पन्नपदार्थस्य । प्रबुद्धस्य कस्यचिदेव पश्चाफल आम्नायः प्रमाणम् । कृतपयपुरुषसण. वेतादाम्नायादशेषजन्तुगतत्वेनापि प्रत्यक्षादेरतिशयद्योतनार्थं जन्तुगुणम् । ततः किमित्याह- स इति । स आम्नायः तैः प्रत्यक्षादिमिः पूर्वभावि तयानुपजातविरोधित्वेन प्रतिष्ठिताधैः प्रतिष्ठितो मेदरूपोऽयं विषयो येषां तैरपहतोऽपनीतो ययाधूयमाणोऽद्वैतरूपो विषयो यस्य स तथोकःअत एव कल्पनीयार्थः प्रत्यक्षादिविरोधेन कल्पनीयं श्रुतादर्थान्तरं यस्य स बाध्यते ; अननुग्राह्यश्चेत् तदा प्रत्यक्षादिविशेषात् श्रुतार्थत्यागःअश्नन्तरं च न कर्प्यत इति वेषयापहारलक्षण एवायं बधः । अथानुग्राह्यः, तदा प्रत्यक्षाद्यनुसारेण प्रत्यक्षादिगृहीतद्रेतापारत्यागेन जास्यात्मनहैतभिस्येवेमर्य कल्धनामर्हतीत्यर्थः । यद्वा प्रत्यक्षादि प्रतिष्ठितार्थम् आम्नायस्तु प्रमाणा न्तरानुसारेण कल्पनीयार्थःअतोऽप्रतिष्ठितार्थः, तेन दुर्बलत्वात् / बाध्यते, तदनुसारेण वार्थकल्पनमर्हतीत्यर्थः । एवं स्वरूपतो मुख्यतामुक्त्वार्थतोऽपि प्रत्यक्षादीनां मुख्यतामाह--अर्यत इति । फ़थमित्याह--पदेति । पद पदार्यविभागे ज्ञाते सत्याम्नायार्थस्य परिच्छेदःस च पदपदार्यविभागः प्रत्य क्षादिष्वायतते प्रत्यक्षाद्ययत्तः ; एतदुक्तं भवति-प्रत्यक्षादोर्वषयः पदपदा र्यभेदः पूर्वभाई , आम्नायस्य चाभेदः पश्चाद्भावी ; तेन विषयमुरुपत्वे नापि प्रत्यक्षादेर्मुख्यत्वमिति । उपसंहरति-अत इति । यतो मुख्यत्वेन बलीयसा प्रत्यक्षादिना विरोधे नाम्नायस्य प्रामाण्यं स्यादत इत्यर्थः । मतान्तरमाह-अन्य इति । तुल्यबलवमेव पूर्वोक्तया युक्त्या नास्ति, तथापि प्रत्यक्षाद्याग्नाययोर्विरोधे हैताद्वैतयोः संशयः स्यात्, न निर्णयः । तेन तव्यनिर्णयायाविरोध उपपाद्यत इत्यर्थः । ननु बोडशिप्रइणादिवत् विकल्प भविष्यति, न संशय इत्याशङ्क्याह--यस्विति ; करिष्यमाणत्वा वनुष्ठानं विकल्प्यते, न तु सिढं बस्वित्यर्थः ।