0B क्षणोऽङ्गरक्षणम् । सत्यं विसदृशहेतूपपाते ; विसदृशो हि तत्र हेतुरग्नि रुपहितः; तेन विसदृशमारभते ; न चेह तथास्ति, विसदृशस्य जपादेरपः नीतत्वात् । नन्वस्तु तर्हि पूर्वतरशूळ्क्षणोऽन्त्यस्य शुङ्क्षणस्य हेतुः । तदपि न शक्यते ; बहुभिर्लोहितक्षणैर्यवहितश्चिरविनष्टो नोत्तरस्य हेतु भवितुमर्हति । तदिदमुक्तम्--अनेकविसभागक्षणव्यवहितस्येति । तत्रैव दृष्टान्तमाह-न हीति । तदेव स्फटिकदृष्टान्तमुपपाञ्च. दार्थान्तिके योज यांते--तस्मादिति । ननु स्फटिकस्य निजं रूपं स्थितमेव ; न तदर्थ- मपकर्षणे पुरुषः प्रयतते, किंतु तज्ज्ञानाय ; तच्च कार्यम्; अतः कार्यमेव ज्ञानं तत्रान्यापेक्षम् नाकार्यं स्फटिकरूपमिति पुनश्चोदयति स्योदेतदिति । तदेतत् विकल्प्य परिहरति--ॐि पुनरिति । यवहाराय हि पुरुषः प्रवर्तते ; स चायंन; न ज्ञानमात्रण, मिथ्याज्ञानेऽपि प्रसङ्गात् ; तेनार्थरूपाय ज्ञानमर्यते, न तु खतः ; ततश्च ज्ञानार्यो व्यपारोऽर्धार्यः ; अतश्च - यद्यपि ज्ञानं कार्यम्, तयाचि ज्ञानार्यो व्यापारोऽर्थेनैवापेक्षितो भवति, न ज्ञानेन ; तस्यायंप्रधानत्वादित्यर्थः । इदमुक्तं भवति--अर्च- सृथैवेयमषेक्षा ज्ञानद्वारेणोपनाता ‘जानीहिततो व्यवहर’ इति । तेना कार्यस्याप्यन्यापेक्षास्ति, तया आत्मनोऽपि मविष्यतीति । ननु ज्ञानं चेदद्यार्थम् , ततो नूनमथै कंचिद्विकारमाधत्ते ; न बर्यं किंचिदकुर्वत स्तादथ्यैमवकल्पते ; विकारश्न कार्यः ; तेन कार्यमेव सापेक्षम्, नार्च इत्याश याह-न चेति । स्यादेवं यदि ज्ञानेन विकारोऽर्थं जन्येत, न त्वमस्तीत्यर्थः । यद्वा ज्ञानेन चेदयोंऽभिव्यज्यते, नूनं ज्ञानादर्थे कश्चि- द्विकारः स्यात् , अकिंचित्करस्यानभिव्यञ्जकत्वात् ; अतश्च बक्षण्यभि- व्यज्यमाने तयैव विकारापत्तेरनित्यत्वदोषः स्यादित्याशङ्कय आस्तां तावत् बाणि, अर्जेsपि न ज्ञानाद विकारो भवतीत्याह-न चेति । यद्वा ननु ज्ञानमर्थं विकृत्याभिव्यनक्ति, इतरथा सर्वथानन्यथाभूतस्य प्रागिवाभिव्यक्त्य- योगात्; ततश्र युक्ता तत्राभिव्यक्तयेऽन्यापेक्षा बल त्वविकार्यत्वादमि- व्यङ्क्तुमशक्यम् ; अतः कथमर्थवदभिव्यक्तयेऽन्यदपेक्ष्यतामिति इष्टान्त- मैवम्यमाशय साम्यप्रदर्श्वनार्थमाह-न चेति यद्द नन्वर्यो । जडत्वाद
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३९
दिखावट