वककाण्डः 41 चिन्मरणीयोरदर्शनादनैकान्तत्वं हेतराश डूय विशिनष्टिकालादीति । तेनेदृशमिदमनुमानम् ‘मरिष्यत्ययं मूच्छ वापत्स्यते, राहोः पङ्गांवी काले वल्मीकादौ देशे दष्टत्वात् पूर्वदृष्टदष्टवदिति दृष्टान्तविशेषणत्वे हेतुत्व- AR. एवं परोक्तं दोषं खपक्षे परिहृत्य परस्मै चापातयन्नाह-यस्यैवेति । ननु ज्ञानमेवैताभिरपनेष्यते; अतः कथमपनेयाभाव इत्याशङ्कयाह- क्षणिकस्येति । ज्ञानापनयो हि तद्विनाशः, स च तस्य क्षणिकस्य स्वभावः सिद्ध एवेत्यर्थः । ननु पूर्वमशुद्धस्य ज्ञानस्य विशुद्धिरतिशयस्तभिरुपनेष्यते; अतः कथमुपनेयाभावः ? इत्याशङ्कयाह -अनधेयेति । द्वितीये क्षणे ज्ञानस्य शुद्धिर्जन्या, न च तदस्तीति भावः । यहा द्वितीये क्षणे किंचि दग्नेयमुपनेयं वा; न च क्षणिकस्य सोऽस्ति, स्वरसेन विनाशात् । किं च तथाभूतस्यैवासंभवात् ; कंचिदतिशयै विकारमाधाय किंचिदुपनेयमपनेत्रं वा; न च क्षणिकस्य क्षणिकत्वादैवातिशयाधानमस्तीत्यर्थः । न चैकस्मिन् क्षणेऽतिशयानतिशयौ संभवतः, विरोधात् इत्याह एकस्मिन्निति । न चैक स्मिंनेव क्षणे पूर्वापरार्धभेदेन तयोरविरोधः, एकस्मिन् क्षणे पूर्वापरार्धमेदा- संभवादित्याह--णयेति । यस्तु विशुद्धात् क्षणाद् विशुद्धस्यैव क्षणान्त रस्योदयमाह तस्यान्यो बद्धोऽन्यो मुच्यत इति दुर्धाठमापद्यते । एवं संतानिन्युपनेयासं भवमुक्त्वा प्रति संततावाशङ्कयति--यदीति । स्थायिनी हि संततिरिति भावः । तद्धयति –तदसदिति । संसारिणो मोक्षेऽधिः कारः ; स च कर्तृत्वमोक्तृत्वलक्षणः; न च संनतिस्तादृशी, अवस्तुत्वात् अतोऽस्या मोक्षेऽनधिकारादुपनेयापनेयावकिचित्कराविति भावः । अवंस्तुत्वं च संतानस्य संतानिभ्यो व्यतिरेकानभ्युपगमादिति द्रष्टव्यम् । दूषणान्तर माह-कथं चेति ; खपुष्पादावदर्शनादिति भावः । अत्रैव परमतमाश- यति-अथेति । एतदूषयति--कल्पितस्तहाति । खोक्तमाह---उक्तमिति । परस्मादात्मनो भिन्नतया करिपतो जीवः, तद्विषयौ बन्धमोक्षौ, न परस्मिन् परमात्मनि सत्यं इति तस्मादविद्यया जीवाः' इत्यादावुक्तमित्यर्थः । एवं संसारमोक्षावपि कश्पितविषयत्वात् कल्पितावित्युक्तं भवति । किंचाना-
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७५
दिखावट