B0 बदतिद्धित्याख्या तेन निवत्येत ? न केनापीस्यर्थः । विद्याया अविरुद्धत्वेनानिवर्तकत्वादन्यस्य च तन्निवर्तकस्यादृष्टत्वादिति भावः । अत्र सिद्धान्तमाह-अत्रोच्यत ( इति । ‘न स्वभावो नार्थान्तरम्’ इति स्वभावाखमावपक्षोकदोषावनभ्युपगमेनैव परिहरति । यदि ब्रह्मणो न खभावःनाप्यर्थान्तरमविद्या, नास्त्येव तद्दत्यत्राह--नेति । यदि न ब्रह्मणो मिन, अभिन्ना वा, न सती, नाप्यसती, कीदृशी नाम सा ? इत्यत आह एवमिति ; ईदृश्येव सा, अनवस्थितैकरूपेत्यर्थः । न चेयमलौकिकीत्याह अविद्यति ; लोक इति वाक्यशेषः । एवमादिभिः शब्दैरसौ रूढा, न सदसदादिशब्दैरिति दर्शयितुं विशिष्टपर्यायनिर्देशः । तत्र सर्वाभावे तावत् प्रमाणमाह-खभावश्चेदिति ; तस्याः सर्वाभावे तावदविद्यात्वा न्यथानुपपत्तिरेव प्रमाणमिति भावः । तथा ब्रह्मस्वभावत्व सत्यत्वात् ब्रह्मव- द्वधानुपपत्तिरपि तत्र प्रमाणम्ह्यम् । अर्थान्तरत्वाभावस्तुल्यदोषत्वात् स्वमा वान्यत्स्वपक्षतुल्यत्वाद्वा न स पृथगुक इति । अत्यन्तासत्वाभावे तु व्यवहां राङ्गवानुपपत्तिः प्रमाणम् ; न ह्यसतो व्यवहाराङ्गत्वं दृष्टमित्याभिप्रायेणाह अत्यन्तेति । उपलक्षणं चेदम्_; उपलम्भोऽप्यसतः स्खपुष्पवन्नोपपघेतेति सोऽपि प्रमाणम् । ननु व्यवहाराजं चेत् ततोऽर्थक्रियाकारित्वात् सचस्य कृथं न सती ! मैवम् , देहारमभावस्याशेषव्यवहाराङ्गस्याष्यसच्वात् । तज्ज्ञानं तत्र सदेव व्यवहाराङ्गमिति चेत् , तदपि न ; यता न ज्ञानमात्रं व्यवह।- राङ्गम् । नन्वविद्या प्रमाणेन चेत् प्रतीयते, ततो ब्रह्मवत् सती ; नो चेत् स्खपुष्पवदसती ; कथमनिर्वचनीया ? मैवम्; अवभाति हि सा ; न तु प्रमाणेन , शुक्तिरूष्यवत्; अत एव खपुष्पाद्विशिष्यते । न च सदसती, विरोषात् ; अतो बलादापन्नमानिर्वचनीयं सदसवाभ्यां राथन्तरम् । ननु न तदन्यत् किंचिद्दष्टम् । मा नाम दृश्यताम् , तथाप्युक्तप्रमाणबलात् सिडम- निर्वचनीयत्वमविद्याया नापलपनीयम्; न हि भुवो गन्धववमन्यत्रादृष्टमिति तत्र दृष्टमप्यपलप्यते । नन्वनिर्वचनीयेति निरुच्यते, कथमनिर्वचनीया ? मैवम् , सदसचम्यामिति विशेषितत्वात् । नन्वविद्या चेदुपेयते, अवश्यं ब्रखणो भि अभिन्न वा स्यात्, राश्यन्तरासं मवात् । मैवम् , शुक्तिरूप्य
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६३
दिखावट