वक्षसिडिघ्याख्या सुखशब्दप्रयोगो दर्शितः । वाचकः शब्दः सुखशब्दः सखस्य वा आनन्दशब्द एव द्रष्टव्यः । मतान्तरमाहसैवेति ; दुःखनिवृति- रित्यर्थःमन्यन्त इत्यध्याहार्यम् । दृष्टो हि सुदुःखादिनिवृत्तैौ ‘सुख्यहम इति सुवशब्दः न च तस्य मुख्यार्थत्वसंभवे गौणत्वमुचितम्ऽ उमय- सिद्धा च दुःखनिवृत्तिः, भावात्मकसुववादिनमपि तत्र तन्निवृत्तेरिष्टत्वात्; अतः सैव सुखमतॐि घर्मान्तरकल्पया ? इति भावः । नन्वेवमुपलादा वषि दुःखनिवृत्तेरविशेषात् सुरिवत्वप्रसङ्ग इत्याशङ्कयाह--न चेति ; सुखि स्वस्येत्यध्याहार्यम् । कुत इत्याह-प्रत्यगिति । प्रतिगतो व्यावृत्त इद मंशेभ्योऽति चेति प्रत्यक् अनिदं चिदात्मा, तत्र वृत्तिः यस्या दुःख । नेटचेः सा प्रत्यग्वृत्तिरिति वैयधिकरण्येऽपि गमकत्वात्समासः । अश्यादौ च जीवात्मा नास्तीति भावः । छितादौ प्रत्यग्वृत्तिरपि दुःखनिवृत्ति रनुपलभ्यमाना सुखं मा प्रसाक्षीदित्युपलभ्यमानग्रहणम् । इदम्’ इति बुद्धिवृत्तेः प्रतिगता ‘अहम्’ इति बुद्धिवृत्तिः प्रत्यग्वृत्तिः, तत उपलभ्यः मानाया दुःखनिवृत्तेः सुवत्वम्; न चामादेः ‘अहम्’ इति बुद्धि रस्तीति वार्यः । ननु मावरूपं सुखं प्रसिद्धम्; कथं निवृत्तिः सुखमित्याशङ्कय पक्षान्सरमाह--तदिति । दरवनिवृत्तिविशिष्टस्यात्मन उपलब्धेर्भवरूपाया एव वा सुरवत्वान्नाश्माद प्रसङ्गः ; तेन दुःखनिवृत्चिर्वा तद्विशिष्टात्मोप लब्धिर्वा सुखमस्तु ; सर्वथा सुखं नाम न धर्मान्तरमस्तीति भावः । एवः मानन्दात्मकवं बक्षण आक्षिप्य समाधत्ते-तानिति । तत्र दखभावसरव पक्ष पूर्वमुक्ते ब्रह्मण्यानन्दशब्दो मुख्य एव स्यात्; ततश्च गौणतपक्षो नावतरेदिति । यद्यपि पूर्वपक्षे गौणपक्षमुपन्यस्य दुःखभावसुखपक्ष उक्तः, तथापि बहुवक्तव्यत्वान्मुख्यसिद्धौ च गौणतायाः सुनिराकार्यत्वान्मुख्यपूर्व कत्वाच्च गौणचिन्ताया दुःखनिवृत्तिसुरवपक्षमेव तावन्निरस्यति --न तावदितिं । दुःखमावे हिं सुखे नैकस्थ भावाभावावेकत्र युगपत् स्याताम् भावरूपे तु तस्मिन् धर्माधर्मयोरिव विरुद्धयोरप्येकत्र यौगपद्यमुपपद्यते । धर्माधर्मयो- कमनि स्थिताविव जन्मन्यपि यौगपद्यमस्त्येव ; यत्रैकस्मात भाषार- देकस्य निग्रहोऽन्यस्य चानुग्रहः । संतापवतश्च शीdइदं निमननिमग्नार्ध कायद्यद्वयें सुखदुःखे युगपंदृश्येते । अतो न दुःखाभवः सर्वमित्यर्थः ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३३९
दिखावट