प्रवृत्तिनियमो न स्यादिति चात्र निवेदितम् । |
अथ मतम्--स्वलनादेव स्मृतं विविच्यते ; कदावि तत्र प्रत्यक्ष इव विशेषाग्रहस्ततोऽविवेकः ; सति तु विशेषग्रहण इन्द्रियसंयुक्ते सामान्य दर्शनेऽपि नाविवेकः ; तत उभयकोटिस्मरणे न संशयः ; एकस्मृतौ न संशयो न विपर्ययः । एवमपि द्वयोः स्मरणे न विपर्ययः स्यात् । न च स्मृतौ विशेषाग्रहणम् , विशेषस्मरणात् । अथ देशकालविशेषात स्मर्यमाणं विविच्यते, तत्र देशकालभेदाग्रह इति ; तन्न ; अनन्तदेशकागदावगतं तथावगतं च दृश्यात् स्मर्यमाणं विविक्तं गम्यते । न च |लभेद प्रहणात् , अनन्तस्मरणानुपपत्तेः; तद्देशावगते च देशभेदान्न छ । अथ स्मर्यमाणताया अप्रहणादविवेकः, स्मर्यमाणताज्ञानच आई तस्मात् स्मरामि? इति ज्ञानशून्यानि रजतादिज्ञानानि भ्रान्तिहेतवः । परिपूणैव तर्हि स्मृतिः, न तया सविषयस्य किंचिन्न गृहीतम्: खयमेव सा खदिषयं दृश्याद्वि विनीति नास्ति दृश्यमानस्मर्यमाणयोरविवेकः। यतः ‘स्मरामि’ इति ज्ञानमन्य- देव दर्शनस्मरणविवेककारि स्मृतेः । तत्रेदं विचार्यम्-- स्मृतिः खविषयं विविनक्ति वा न वा ? यदि विविनक्ति, तदा विपर्ययाभावः ; अथ न स्मृतिः स्खविषयं विविनक्ति, तदा सामान्यदर्शने चान्यस्मृतौ विपर्ययः स्या- वित्युक्तम् । न ‘स्मरामि’ इति विवेकाच्चेत्, स एव स्मृतेः स्वयमविवेचकत्वेन स्यात् ? कार्यगम्यस्य हि ज्ञानस्य भेदः कार्यविशेषोनेयः । न चेत् स्मृतेः प्रमाणकार्यात् कार्यं विविक्तं स्यात् , केन सा विविक्ता गम्येत ? सत्यपि स्मृतिविवेके दृष्टः प्रत्यभिज्ञाभ्रमः स एव' इति ' न च प्रत्यक्षस्याविवेकः एफविवेकेनोमयोर्विवेश्नात् स्मृतादविवेकाच स्मृतिविभ्रमः स्यात्, न प्रत्यक्ष
भ्रमः । तस्मान्न स्मरामि ’ इति प्रमादविवेकः । अयासंनिहितस्य
1 |
2 वेकड-B. |