अथर्ववेदः/काण्डं ५/सूक्तम् १३

विकिस्रोतः तः
← सूक्तं ५.१२ अथर्ववेदः - काण्डं ५
सूक्तं ५.१३
गरुत्मान्
सूक्तं ५.१४ →
दे. तक्षकः। जगती, - - -- -

विषभैषज्यकर्मणि विनियोगः(कौ.सू. २९.१)। आभिचारिके कर्मणि विनियोगः(कौ.सू. ४८.९-१०)

5.13
ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् ।
खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥
यत्ते अपोदकं विषं तत्त एतास्वग्रभम् ।
गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥
वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते ।
अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥
चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् ।
अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥
कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।
मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥
असितस्य तैमातस्य बभ्रोरपोदकस्य च ।
सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥
आलिगी च विलिगी च पिता च माता च ।
विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥
उरुगूलाया दुहिता जाता दास्यसिक्न्या ।
प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥
कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ।
याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥
ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् ।
ताबुवेनारसं विषम् ॥१०॥
तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् ।
तस्तुवेनारसं विषम् ॥११॥

भाष्यम्

(स्वामी गङ्गेश्वरानन्दः उदासीनः)


त्रयोदशं सूक्तम्
एकादशर्चस्यास्य सूक्तस्य गरुत्मान् ऋषिः । तक्षको देवता। प्रथमातृतीययोर्ऋचोर्जगती, द्वितीयाया आस्तारपङक्तिः, चतुर्थी-सप्तम्यष्टमीनामनुष्टुप्, पञ्चम्यास्त्रिष्टुप्, षष्ठ्याः पथ्यापङ्क्तिः, नवम्या भुरिग्जगती, दशम्येकादश्योश्च निचृद्गायत्री छन्दांसि ।
'ददिर्हि' इति सूक्तं विषभैषज्यकर्मणि विनियुज्यते । तत्र 'ददिर्हि' इति प्रथमर्चः सर्वविषभैषज्यकर्मणि विनियोगः । तदुक्तं कौशिकेन-'ददिर्हि' इति तक्षकायेत्युक्तम् (कौ. सू. २९।१) इति । 'ददिर्हि' इत्येतस्या विनियोगः 'तक्षकाय' (कौ. सू. २८।१) इति सूत्रे प्रोक्तं इति तस्यार्थः । तद्विनियोगविस्तरस्तु 'ब्राह्मणो जज्ञे' अ. ४।६) इति सूक्त द्रष्टव्यः ।
द्वितीयादीनाम् ऋचां प्रत्यृचं विषापहरण एव विनियोगः । तथा च सूत्रम् -- "द्वितीयया ग्रहणी । सव्यं परिक्रामति । शिखासिचि स्तम्बान् उद्ग्रथ्नाति । तृतीयया प्रसर्जनी । चतुर्थ्या दक्षिणम् 'अपेहि' (अ. ७।९३।१) इति दंश्म तृणैः प्रकर्ष्याहिम् अभिनिरस्यति यतो दष्टः । पञ्चम्या वलीकपल (? ला)लज्वालेन । षष्ठ्यार्त्नीज्यापाशेन । द्वाभ्यां मधूद्वापान् पाययति । नवम्या श्वावित्पुरीषम् । त्रिःशुक्लया मांसं प्राशयति । दशम्याऽलाबुनाऽऽचमयति । एकादश्या नाभिं बध्नाति' कौ. सू. २९।२-१४) इति । अस्यार्थः--ग्रहणी कटकबन्धः । मृदादितोऽप्रदक्षिणं रेषां करोति बन्धः । तद् विषस्तम्भनभैषज्यम् । शिखां दष्टस्य बध्नाति तदपि विषस्तम्भनम् । श्वेतवस्त्रे शणस्तम्बे वा ग्रन्थिं बध्नाति । विषं स्तभ्यते शरीरे न सर्पति । तृतीयया दष्टं स्थानं पीडयति । तेन विषमन्यत्र गच्छति । चतुर्थ्या आचार्यस्ततः प्रदक्षिणं परिक्रामति । 'अपेहि' (अ. ७।९३।१) इत्यृचं जपित्वा तृणानि प्रज्वाल्य अहेरभिमुखं प्रक्षिपति दष्टस्थाने वा । बलीकेति गृहतृणावज्वालितम् उदकमभिमन्त्र्य दष्टं पाययति प्रोक्षति च । षष्ठ्या आर्त्नीज्यापाशमभिमन्त्र्य बध्नाति । सप्तम्यष्टमीभ्यां मधुमक्षिकां मधुवृक्षमृत्तिकां चाभिमन्त्र्य पाययति । पुरीषमभिमन्त्र्य पाययतीति शेषः । त्रिःशुक्लया श्वाविच्छलाकया । मांसं श्वावित्सम्बन्धि । अलाबुना अलाबुन्युदकं कृत्वा अभिमन्त्र्य आचमयति विषव्याधितम् । अलाबुवृन्तं सम्पात्याभिमन्त्र्य बध्नाति इति ।
तथा आभिचारिके कर्मणि अस्य सूक्तस्य विनियोगः । तदुक्तं कौशिकेन-- "ददिर्हि' इति साग्नीनि । देशकपटु प्रक्षिणाति” (कौ. सू. ४८।९,१०) इति । देशकपटु सर्पच्छत्रम् अहिच्छत्रम् ।

द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्।
खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ।।१।।
ददिः । हि । मह्यम् । वरुणः । दिवः । कविः । वचःऽभिः। उग्रैः। नि। रिणामि । ते। विषम ।
खातम्। अखातम्। उत । सक्तम् । अग्रभम् । इराऽइव । धन्वन् । नि। जजास । ते । विषम् ॥१॥
हे सर्प ! कविः क्रान्तदर्शी, विषभैषज्यविद्वान् इत्यर्थः, वरुणः वरुणो देवः । यतो वरुणो हि दुरिष्टं गृह्णाति । यथाऽऽम्नायते शतपथब्राह्मणे --'यद्वस्य दुरिष्टं भवति वरुणोऽस्य तद् गृह्णाति' (४।५।१।६) इति । दिवः द्युलोकात् । एतेनास्य मन्त्रस्योत्कृष्टगुणत्वं द्योतते । मह्यं हि विषवैद्याय नूनं ददिः अददात् । अतोऽहम् उग्रैः उद्गूर्णबलैः वचोभिः मन्त्रवाक्यै: ते त्वदीय विषं गरलं निरिणामि नाशयामि । नि+रि हिंसायां (स्वा.) धातोर्लट् । व्यत्ययेन श्नाप्रत्ययः । यद्वा रि गतौ धातोः विकरणव्यत्यये रूपम्, निरगमयामीत्यर्थः । खातं मांसखनितं विषं, शरीरान्त:प्रविष्टं तव विषम् इत्यर्थः । तथा अखातम् अखनितम्, शरीरस्योपरि भागे एव व्याप्तं विषम् उत सक्तम् केवलं शरीरे स्पृष्टमात्रं विषं सर्वविधं विषमहम् अग्रभम् अगृह्णाम्, गृह्णामि - इत्यर्थः । ग्रह उपादाने धातोर्लङ्, विकरणव्यत्येन शप्, हस्य च भकारः । अहं ते तव विषं गरलं निजजास समाप्नुयां नितरां नाशयामीत्यर्थः । कथमिव ? धन्वन् मरुप्रदेशे इरा इव जलधारा: इव । निजजास इत्यत्र निपूर्वकात् जसु मोक्षणे (दिवा.) धातोर्लिङर्थे लिट् ।

यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्।
गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मम्भि॒यसा॑ नेश॒दादु॑ ते ।।२।।
यत् । ते। अपऽउदकम् । विषम् । तत् । एतासु । अग्रभम् ।
गृह्णामि। ते। मध्यमम् । उत्तमम् । रसम् । उत । अवमम् । भियसा । नेशत् । आत् । ऊं इति । ते ॥२॥
हे सर्प ! ते तव यत् अपोदकम् अपगच्छति शुष्कतामेति उदकं शरीरान्तःस्थं जलं येन, तादृशं विषं गरलम् एतासु व्याधितस्यास्य जलनाडिकासु प्रविष्टं तद्
विषं ते अहम् अग्रभम् अगृह्णाम् । आत् अथ 'आत् अथेति' निरुक्तम् (४।११) ते तव उत्तम मध्यमम् उत अवमं श्रेष्ठं सामान्यं निकृष्टञ्च रसं विषं गृह्णामि बलादाकृषामि, कृष विलेखने (तु.) धातोः रूपम् । एवं सर्वमिदं ते तव विषं भियसा मन्त्रभयेन नेशत् नश्येत् । णश् अदर्शने धातोर्लेट् विकरणव्यत्ययेन शम् ।

वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते।
अ॒हं तम॑स्य॒ नृभि॑रग्रभ॒म्रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑ ।।३।।
वृषा । मे। रवः । नभसा। न । तन्यतुः। उग्रेण । ते। वचसा। बाधे । आत् । ऊं इति। ते।
अहम्। तम् । अस्य । नृऽभिः । अग्रभम् । रसम् । तमसःऽइव । ज्योतिः । उत् । एतु । सूर्यः ॥३॥
मे मम विषवैद्यस्य रवः मन्त्रोच्चारणस्वरः, कीदृशः ? वृषा अभीष्टफलवर्षक:, नभसा नभसि विभक्तिव्यत्ययश्छान्दसः । तन्यतुः न गर्जनमिव, विद्यते इति शेषः । तनु विस्तारे धातोः 'ऋतन्यञ्जि.' (उ. ४।२) इति सूत्रेण युतच्प्रत्ययः । 'तन्यतुः 'तनित्रीवाचोऽन्यस्याः' इति यास्कः (निरु. १२।३०) । अतः आत् इत्ययमानन्तर्यार्थो निपातः । मन्त्रोच्चारणानन्तरमेव उग्रेण वचसा बलशालिना मन्त्रवाक्येन ते ते तानि तानि सर्वाणि विषाक्तानि अङ्गानि, विभक्तिव्यत्ययश्छान्दसः, बाध विलोडयामि, विषरहितानि कुर्वे इत्यर्थः । बाधृ विलोडने (भ्वा.) धातोर्लट् । यत: अहं वैद्यः नृभिः कार्यसम्पादकजनैः सहायभूतैः सह, णीञ् प्रापणे धातोः 'नयताडच्च' (उ. २।१००) इति सूत्रेण ऋप्रत्ययः । प्रत्ययस्य डित्वाट्टिलोपः । अस्य व्याधितस्य तं रसं विषं 'शृङ्गारादो विष वीर्ये गुणे रागे द्रवे रसः' इत्यमरः (३।३।२२७) इति । अग्रभम् अगृह्णाम्, बलादाकर्षामीत्यर्थः । येन अस्य रोगिणः ज्योतिः जीवनप्रकाशः तमसः रात्र्यन्धकारात् उदेतु उदय लभताम् । कथमिव ? सूर्यः इव यथा रात्र्यन्धकारं भित्वा सूर्यः समुदेति तथैवास्य पीडितस्य जीवनज्योतिरपि विषान्धकारं विनाश्य समुदेष्यतीति भावः ।

चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्।
अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्ये॑तु त्वा वि॒षम् ।।४।।
चक्षुषा । ते । चक्षुः। हन्मि । विषेण । हन्मि । ते । विषम् ।
अहे । म्रियस्व । मा। जीवीः । प्रत्यक् । अभि । एतु । त्वा । विषम् ॥४॥
हे सर्प ! चक्षुषा 'सत्यं वै चक्षुः' (श. १।३।१।२७) इति श्रुतेः । सत्येन मन्त्रप्रभावेण यद्वा आत्मदृष्ट्या ते तव चक्षुः दृष्टिं हन्मि नाशयामि । विषेण 'विषं तु गरले तोये' इति विश्वः । अभिमन्त्रितेन जलेन यद्वा 'विषस्य विषमौषधम्' इति न्यायेन विषौधषद्वारा ते विषं त्वदीयं गरलं हन्मि नाशयामि । हे अहे ? सर्प ! म्रियस्व सम्प्रति त्वं मृत्युं याहि, मा जीवीः न जीव । विषम् इदं गरलं त्वा त्वामेव अभ्येतु प्राप्नोतु।

कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः।
मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ।।५।।
कैरात । पृश्न । उपऽतृण्य । बभ्रो इति । आ। मे । शृणुत । असिताः । अलीकाः ।
मा। मे। सख्युः । स्तामानम् । अपि । स्थात । आऽश्रावयन्तः । नि । विषे। रमध्वम् ॥५॥
कैरात पृश्न उपतृण्य बभ्रो असिताः अलीका:-एताः सर्पजातयः, तत्सम्बुद्धौ । एतादृशाः हे सर्वे सर्पाः ! यूयं मे मम वाक्यम् प्राशृणुत सम्यग् आकर्णयत । मे मम सख्युः मित्रभूतस्यास्य व्याधितस्य स्तामानमपि गृहपार्श्वेऽपि मा स्थात न तिष्ठत । आश्रावयन्तः इदं मे कथनमन्यानपि सर्पान् श्रावयन्तः, बोधयन्तः इत्यर्थः, यूयं विषे आत्मरसे एव निरमध्वम् नितरां रमणं कुरुत।

अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च।
सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ।।६।।
असितस्य । तैमातस्य । बभ्रोः । अपऽउदकस्य । च ।
सात्राऽसहस्य । अहम् । मन्योः । अव । ज्याम्ऽइव । धन्वनः । वि । मुञ्चामि । रथान्ऽइव ॥६॥
साम्प्रतमहं विषवैद्यः असितस्य कृष्णसर्पस्य तैमातस्य आर्द्रस्थानेषु निवसतः सर्पस्य बभ्रोः बभ्रुवर्णस्य सर्पस्य अप उदकस्य अपगतानि जलानि येषां स्थानानां तत्र तादृशपर्वतादिषु निवसतः सर्पस्य तथा सात्रासाहस्य सत्रमेव सात्रा, 'सत्रा सत्यनाम इति निघण्टुः (३।१०)। सत्रोपपदात् षह मर्षणे धातोः 'कर्मण्यण्' इत्यण् प्रत्ययः । मन्त्रस्य सत्यप्रभावसहनशीलस्य सर्पस्य च मन्योः क्रोधस्य वेगम् अहं व्यवमुञ्चामि मोचयामि । कथमिव ? धन्वनः धनुषः ज्याम् इव गुणमिव तथा रथान् इव रथबन्धनानीव वि अवमुञ्चामीति पूर्वेण सम्बन्धः ।

आलि॑गी च॒ विलि॑गी च पि॒ता च॑ म॒ता च॑।
वि॒द्म वः॑ स॒र्वतो॒ बन्ध्वर॑साः॒ किं क॑रिष्यथ ।।७।।
आऽलिगी। च । विऽलिगी। च । पिता। च । माता । च ।
विद्म। वः । सर्वतः । बन्धु । अरसाः। किम् । करिष्यथ ॥७॥
सर्पेषु यः कश्चन आलिगी विलिगी एतदुभयजातीयो वर्त्तते यद्वा आलिगीलिगिधातुर्गत्यर्थकः (भ्वा.), आसमन्ताद् गतिशीलः, विलिगी-विविधं गतिशीलश्च तथा पिता जनयिता, माता च जनयित्री च विद्यते, व: युष्माकं सर्वतः बन्धु सर्वान् बन्धून्, बन्धु-इति छान्दसं रूपम्, विद्म वयं जानीमः । एतान् सर्वान् युष्मानहं निर्विषानकरवम् । अतः अरसा: निर्विषा: सन्तो यूयं किं करिष्यथ । किमपि तु नैते सर्पाः करिष्यन्तीति भावः ।।

उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या।
प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सम्वि॒षम् ।।८।।
उरुऽगूलायाः । दुहिता । जाता। दासी । असिक्न्या।
प्रऽतङ्कम् । दद्रुषीणाम् । सर्वासाम् । अरसम् । विषम् ॥८॥
उरुगूलायाः उर्वी गूला गुहा गर्भाशयस्थानं यस्याः सा तस्याः । वर्णव्यत्ययश्छान्दसः । विस्तृतगर्भाशयवत्याः सर्पिण्या दुहिता दुर्हिता दूरे हिता वा अनिष्टकारिणी सर्पजातिरित्यर्थः । जाता सन्ततिः समुत्पन्नाऽभवत् । असिक्न्या च रात्रिनामसु पाठात् रात्रिवत् कृष्णवर्णाया: । 'असिक्न्यशुक्लासिता' इति निरुक्तम् (९।२४) । कृष्णसर्पिण्याः दासी दंशनकारिणी सर्वजातिः । दसि दर्शन-दंशनयोः (चु.) धातो: 'दंसेष्टटनौ आ च' (उ. ५।१०) इत्यनेन सूत्रेण औणादिकः ट: प्रत्ययः, नकारस्याकारादेशश्च, स्त्रियां ङीष् । जातेति पूर्वेण सम्बन्धः । उभयोरप्यनयोः सर्पजात्योस्तथा दद्रुषीणां दद्रु विकारोत्पन्नकारिणीनां सर्वासां सर्पजातीनामपि प्रतङ्कं प्रकृष्टं कष्टप्रदम्, आपूर्वकात् तकि कृच्छ्र जीवने (भ्वा.) धातोर्घञ् । यद्वा 'हलश्च' (पा. ३।३।१२१) इत्यनेन करणे वा। विषं गरलमपि अरसं निष्फलं करोमीति शेषः । यद्वा तादृशीनां सर्पजातीनामपि भयङ्करं गरलं मन्त्रशक्त्या निष्फलं जायते ।

क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का।
याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ।।९।।
कर्णा । श्वावित् । तत् । अब्रवीत् । गिरेः । अवऽचरन्तिका ।
याः । काः । च । इमाः । खनित्रिमाः । तासाम् । अरसऽतमम्। विषम् ॥६॥
कर्णा कर्णवती विक्षेपयित्री वा, विनाशकारिणीत्यर्थः । कॄ विक्षेपे धातोः 'कृ वृ जृ सि.' (उ. ३।१०) इति सूत्रेण नक् प्रत्ययः, स्त्रियां टाप् । श्वावित् हिंसनकारिणी सरीसृपजातिः, या हि गिरेः अवचरन्तिका पर्वतोपत्यकादिषु विचरणशीला वर्त्तते सा हि तदेतद् अब्रवीत् कथयतीत्यर्थः । या: काश्च इमाः एता: सरीसृपजातयः खनित्रिमा: भूमिं निखन्य वसन्ति, खनु अवदारणे धातोः 'उषिखनिभ्यां कित्' (उ. ४।१६२) इत्यनेन ष्ट्रन् । जातार्थे डिमच् प्रत्ययः । तासाम् एतासां विषं गरलम् अरसतमं सर्वथा निकृष्टतमं भवति ।

ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्।
ता॒बुवे॑नार॒सं वि॒षम् ।।१०।।
ताबुवम् । न । ताबुवम् । न । घ । इत् । त्वम् । असि । ताबुवम् ।
ताबुवेन । अरसम् । विषम् ॥१०॥
ताबुवं नाम सर्पः, यद्वा ताबुवं नाम सर्पविषं ताबुवं न ताबुवनामौषधमिव तीक्ष्ण विषमस्ति । अतो हे सर्प ! त्वं ताबुवं न घ इत् असि घ एवार्थो निपातः । सम्प्रति त्वं घातकः न वर्त्तसे । यतः ताबुवेन औषधेन त्वदीयं विषम् अरसं नीरसं जातमस्ति ।
 
त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्।
त॒स्तुवे॑नार॒सं वि॒षम् ।।११।।
तस्तुवम् । न । तस्तुवम् । न । घ। इत् । त्वम् । असि। तस्तुवम ।
तस्तुवेन । अरसम् । विषम् ॥११॥
तस्तुवम् एतन्नामक: सर्पविशेषः, तस्तुवं न तस्तुवौषधमिव घातको वर्त्तते । हे सर्प ! सम्प्रति त्वं तस्तुवं न घ इत् असि घातको न विद्यसे । यतस्ते विषं गरलं तस्तुवेन मन्त्रप्रभावतः औषधप्रभावतो वा अरसं नीरसं निर्विषमभूत् ।