अथाविधा न ब्रह्मणः स्वभावः, अर्थान्तरं . बझण आपवीत ; न वा स्यात् , तत्र किं निवर्यम्? अथ मतम्-- - अग्रहणमविद्या, सा कथमर्थान्तरं स्यात् ? न चानिवर्या, सर्वप्रमाणव्यापाराणामग्रहणनिवृत्यर्थत्वात् ; तदष्य युक्तम् ; तवाग्रहणात्मिका द्यविद्या तधग्रहणात्मिकया विद्यया निवत्येते सा च नित्या ब्रह्मणि ; न च ब्रह्मणोऽन्योऽस्ति, यस्य तवाग्रहणं बह्वणि प्रयत्नलभ्यया विद्यया 'निवत्येंत ; ब्रह्मणि तु युगपद्वहणाग्रहणे विप्रतिषिद्ध; अविप्रतिषेधे वा न कदाचिदविद्य निवर्येत । यस्य तु विपर्ययग्रहणमाविद्या, तस्य ब्रह्मणः स्वमावश्रेत् स नित्यः कथ निवन्येत ? अस्वभावश्चेदर्थान्तर- मापद्येत । कस्य च तदिति वाच्यम्, ब्रह्मणोऽन्यस्याभावात्ब्रह्मण एवेति चेत्, विप्रतिषेधः, तस्य विद्यास्वरूपत्वात्; अविप्रतिषेधे य’ केन निवृत्तिः
अत्रोच्यते – नाविद्या *ब्रह्मणः स्वभावःनार्थान्तरम् , नात्यन्तमसती, नापि सती ; एवमेवेयमविद्या मया मिथ्यावभास इत्युच्यते । स्वभावश्चेत् कस्यचित् , अन्योऽनन्यो वा ‘परमार्थ एवेति नाविद्य; अत्यन्तासवे रवपुष्पसदृशी न यवहाराङ्गम् ; तस्मादनिर्वचनीया । सर्वप्रवादिभिश्चेस्थ- मियमास्थेया । तथा हि--शून्यवादेन सर्वे यथादर्शनम् , नाविद्या ; रवपुष्पतुल्यत्वे न ‘व्यवहाराङ्गम् । विज्ञानमात्रवादिनोऽपि यथावभासं ‘ज्ञानसद्भावे नाथपइवः, नीलपीतादेब्रेयाकारस्य बहिरवभासानपवाद अत्यन्तासवे बहिरवभासयोगात, खपुष्पवत् । बाखार्थवादिनामप्यनित्यादिषु नित्यादिख्यातयो रजतादिविभ्रान्तयावभासमानरूपसद्भावे नाविद्यात्वमक्षु- वीरन् ; नात्यन्तासत्त्वे तनिबन्धनः कश्चन व्यवहारः स्यात् । स्यादेतत्-- 'अवभासमानं रूपं मा भूत् , अवभासस्तु सन्नेव, स चाविद्येति गीयते । नैतत् सारम् ; अवभासमानेऽसति तदवभासोऽपि सत्यते दुर्निरूपः ; अवभासमात्रं तु स्यात् । तदवभास इत्यपि श्रान्तिरेव । तस्मान्नाविया सती, नाप्यसतीति । अत ‘एव चास्या निवृत्तिरदृढस्वभावायाःमायामात्र
त्वात्; अन्यथास्वभावे दृढं व्यवस्थितायाः कथमन्यथात्वम्? स्वभावादानात्
२ निवर्यते--B. A omits वा. १ ब्रह्मस्वभावः--A |
चरमार्थ--C. व्यवहार .-A and B. ४ य--A |
अत्यन्ताभावे न-A and B. ४ अवभासमानरूपे--B, एवास्या-.B. |