अथर्ववेदः/काण्डं ४/सूक्तम् ०८

विकिस्रोतः तः
← सूक्तं ४.०७ अथर्ववेदः - काण्डं ४
सूक्तं ४.८
अथर्वाङिराः
सूक्तं ४.०९ →
दे. चन्द्रमा, आपः, राज्याभिषेकः, १ राजा, २ देवाः, ३ विश्वरूपः, ४-५ आपः। अनुष्टुप्, - --- -

4.8
भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।
तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम् ॥१॥
अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा ।
आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥
आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः ।
महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥
व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।
विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥४॥
या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम् ।
तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥५॥
अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः ।
यथासो मित्रवर्धनस्तथा त्वा सविता करत्॥६॥
एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय ।
समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥७॥