अथर्ववेदः/काण्डं ४/सूक्तम् ०९

विकिस्रोतः तः
← सूक्तं ४.०८ अथर्ववेदः - काण्डं ४
सूक्तं ४.९
भृगुः
सूक्तं ४.१० →
दे. त्रैकाकुदाञ्जनम्। अनुष्टुप्, २ ककुम्मती, ३ पथ्यापङ्क्ति-।

4.९
एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् ।
विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥१॥
परिपाणं पुरुषाणां परिपाणं गवामसि ।
अश्वानामर्वतां परिपाणाय तस्थिषे ॥२॥
उतासि परिपाणं यातुजम्भनमाञ्जन ।
उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥३॥
यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।
ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४॥
नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।
नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥५॥
असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत ।
दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥
इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् ।
सनेयमश्वं गामहमात्मानं तव पूरुष ॥७॥
त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः ।
वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥
यदाञ्जनं त्रैककुदं जातं हिमवतस्परि ।
यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥९॥
यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।
उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥१०॥