पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124 गणितसारसङ्ग्रहः

विषमचतुरश्रक्षेत्रस्य मुरवभूभुजावलम्वककणबाधाधनानयनसूत्रम्--

ज्येष्ठारुपान्योन्यहीनश्रुतिहतभुजकोठी मुजे भूमुरवे ते
कोबोरन्योन्यदोभ्यं हतयुतिरथ दोघृतयुक्कोटिघातः ।
कर्णावरुपश्रुतिस्रावनधिकभुजकोव्याहतौ लवकौ ता
वाबाधे कोटिदोर्माववनिविवरके कर्णघातार्धमर्थः ॥ १०३(१/२) ॥

अत्रोद्देशकः ।

एकद्विकविकत्रिकजन्ये चोत्थाप्य विषमचतुरश्रे ।
मुरव भूभुजावलम्बककर्णाबाधाधनानि वद ॥ १०४(१/२) ॥

पुनरपि विषमचतुरश्रानयनसूत्रम्
द्वश्रुतिकृतिगुणितो ज्येष्ठभुजः कोठिरापि थरा वदनम् ।
कर्णाभ्यां सङ्गणितावुभयभुजावरुपभुजकोठी ॥ १०५(१/२) ॥

ज्येष्ठभुजकोटवियुतिर्दधातुपभुजकोठिताडिता युक्ता ।
देखभुजकोठियुतिगुणपृथुकोव्वरुपश्रुतिस्रको कर्णा ॥ १०६(१/२) ) ॥

अरुपश्रुतिहतकर्णाल्पकोटिभुजसंहती पृथग्लवौ ।
तदुजयुतिवियुतिगुणात्पदमावाधे फलं श्रुतिगुणार्धम् ॥ १०७(१/२) ॥

एकस्माज्जन्यायतचतुरश्राष्ट्रसमात्रभुजानयनसूत्रम् –

कथं भुजद्वयं स्याद्वाहुर्विगुणीकृतो भवेदूमिः ।
कोटिरवलबकोऽयं द्विसमत्रिभुजे धनं गणितम् ॥ १०८(१/२) ॥

अत्रोद्देशकः ।

त्रिकपञ्चकबीजोत्थद्विसमत्रिभुजस्य गणक वाहू द्वौ ।
भूमिमवलम्बकं च प्रगणय्याचक्ष्व मे शीघ्रम् ॥ १०९(१/२) ॥