पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१५५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


क्षेत्रगाणतव्यवहारः 123

कोटिसङ्ख्या ज्ञात्वा भुजाकर्णसङ्ख्यानयनस्य च भुजसख्य
ज्ञात्वा कोठिकर्णसङ्ख्यानयनस्य च कर्णसङ्ख्यां ज्ञात्वा कोटिभुजा
सङ्ख्यानयनस्य च सूत्रम् –

कोटिकृतेश्छेदाप्योस्सङ्गणे श्रुतिभुजौ भुजकृतेर्वा ।
अथवा भृतीष्टकृत्योरन्तरपदमिष्टमपि च कोटिभुजे ॥ ९७(१/२) ॥

अत्रोद्देशक ।

कस्यापि कोटिरेकादश बाहुष्षष्टिरन्यस्य ।
श्रुतिरेकषष्टिरन्यस्यानुक्तान्यत्र मे कथय ॥ ९८(१/२) ॥

द्विसंमचतुरश्रक्षेत्रस्यानयनप्रकारस्य सूत्रम्--

लन्यक्षेत्रभुजार्धहारफलजप्राग्जन्यकोट्योर्युति-
भूरास्यं वियुतिभुजा श्रुतिरथारुपाल्पा हि कोटिर्भवेत् ।
आबाधा महती श्रुतिः श्रुतिरभूज्येष्ठं फलं स्यात्फलं
बाहुस्स्यादवलम्बको द्विसमकक्षेत्रे चतुर्बाहुके ॥ ९९(१/२) ॥

अत्रोद्देशकः ।

चतुरश्रक्षेत्रस्य द्विसमस्य च पञ्च षटूबीजस्य ।
मुरवभूभुजावलम्बककर्णाबाधाधनानि वद ॥ १००(१/२) ॥

त्रिसमचतुरश्रक्षेत्रस्य मुखभूभुजावलम्बककर्णाबाधाधनानयनसूत्रम्--

भुजपदहतबीजान्तरहृतजन्यधनाप्तभागहाराभ्याम् ।
तद्वजकोटिभ्य च द्विसम इव त्रिसमचतुरश्रे ॥ १०१(१/२) ॥

अत्रोद्देशकः ।

चतुरश्रक्षेत्रस्य त्रिसमस्यास्य द्विकत्रिकखबीजस्य ।
मुरवधूभुजावलम्बककर्णाबाधाधनानि वद ।। १०२(१/२) ॥

11-A