पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

114 गणितसारसङ्ग्रहः

यवाकारमर्दलाकारपणवाकारवज्राकाराणां क्षेत्राणां व्यावहारिक
फलानयनसूत्रम्--

यवमुरजपणवशक्रायुधसंस्थानप्रतिष्ठितानां तु ।
मुरवमध्यसमासार्ध त्वायामगुणं फलं भवति ॥ ३२ ॥

अत्रोद्देशकः ।

यवसंस्थानक्षेत्रस्यायामोऽतिरस्य विष्कम्भः ।
मध्यश्चत्वारिंशत्फलं भवेकं ममाचक्ष्व ॥ ३३ ॥

आयामोऽशतिरयं दण्डा मुरवमस्य विंशतिर्मध्ये ।
चत्वारिंशत्क्षेत्रे मृदङ्गसंस्थानके बूहि ॥ ३४ ॥

पणवाकारक्षेत्रस्यायामः सप्तसप्ततिर्दण्डाः ।
मुरवयोर्विस्तारोऽष्टौ मध्ये दण्डास्तु चत्वारः ॥ ३५ ॥

वत्रकृतंस्तथास्य क्षत्रस्य षडग्रनवतरायामः ।
मध्ये सूचिभुवयोस्त्रयोदश त्र्यंशसंयुता दण्डाः ॥ ३६ ॥

उभयनिषेधादिक्षेत्रफलानयनसूत्रम्-

व्यासात्खायामगुणाद्विष्कम्भार्थनदीर्घमुत्सृज्य ।
त्वं वद निषेधमुभयोस्तदर्धपरिहीणमेकस्य ॥ ३७ ॥

अत्रोद्देशकः ।

आयामः षत्रिंशद्विस्तारोऽष्टादशैव दण्डास्तु ।
उभयनिषेधे किं फलमेकनिषेधे च किं गणितम् ॥ ३८ ॥

बहुविधवलकाराणां क्षेत्राणां व्यावहारिकफलानयनसूत्रम्--

रज्ज्वर्धकृतित्र्यंशो बाहुविभक्तो निरेकबाहुगुणः ।
सर्वेषामश्रवतां फलं हि बिम्बान्तरे चतुर्थाशः ॥ ३९ ॥