पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यहारः 113

अत्रोद्देशकः ।

चत्वालक्षेत्रस्य व्यासस्तु भसह्यकः परिधिः ।
षट्पञ्चशदृष्टं गणितं तस्यैव किं भवति ॥ २६ ॥

कूर्मनिभस्योन्नतवृत्तस्योदाहरणम्--

विष्कम्भः पञ्चदश दृष्टः परिधिश्च षट्रत्रिंशत् ।
कूर्मनिभे क्षेत्रे किं तस्मिन् व्यवहारजं गणितम् ॥ २७ ॥

अन्तश्चक्रवालवृत्तक्षेत्रस्य बहिश्चक्रवालवृत्तक्षेत्रस्य व व्यवहारफलानयनसूत्रम्--

निर्गमसहितो व्यासस्त्रिगुणो निर्गमगुणो बहिर्गणितम् ।
रहिताधिगमञ्यासादभ्यन्तरचक्रवालवृत्तस्य ॥ २८ ॥

अत्रोद्देशकः ।

२थासोऽष्टादश हताः पुनर्बहिर्निर्गतास्त्रयस्तत्र ।
व्यासोऽष्टादश हस्ताश्चन्तः पुनरधिगतास्त्रयः किं स्यात् ॥ २९ ॥

समडत्तक्षेत्रस्य व्यावहारेकफलं च पराधप्रमाणं च व्यासप्रमाणं च
संयोज्य एतत्संयोगसह्यमेव स्वीकृत्य तत्संयोगप्रमाणराशेः सकाशात्
पृथक् परोिधव्यासफलानां सह्यानयनसूत्रम् --

गणिते द्वादशगुणिते मिश्रप्रक्षेपकं चतुःषष्टिः ।
तस्य च मूलं कृत्वा परिधिः प्रक्षेपकपदोनः ॥ ३० ॥

अत्रोद्देशकः ।

परिधिव्यासफलानां मित्रं षोडशशतं सहस्रयुतम् ।
कः परिधिः कि गणितं व्यासः को वा ममाचक्ष्व ॥ ३१ ॥