पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 109

स्थाप्य प्रतिलोमग्नं प्रतिलोमग्नेन जितं सारम् ।
स्याङघुगुरुक्रियेयं सङ्ख्या द्विगुणैकवर्जिता साध्वा ।। १३६(१/२) ।।

अत्रोद्देदेशकः ।

सङ्ख्यां प्रस्तारविधिं नोद्दिष्टे लगक्रियाध्वानौ
षट्प्रत्ययांश्च शीघ्र यक्षरवृत्तस्य मे कथय ॥ १३७(१/२) ॥


इति मिश्रकव्यवहारे श्रेढीबद्धसङ्कलितं समाप्तम् ॥
इति सारसङ्ग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ मिश्रकगणितं
नाम पञ्चमव्यवहारः समाप्तः ॥