पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

100 गणितसारसङ्गहः

जयति हि पक्षी ते मे देहि वर्णा ह्यविजयोऽसि दद्यां ते।
तद्वियंशकमद्यत्यपरं च पुनः स संसृत्य ॥ । २७१(१/२) ॥

त्रिचतुर्थं प्रतिवाञ्छत्युभयस्माद्वादशैव लाभः स्यात् ।
तत्कुक्कुटिककरस्थं ब्रूहि त्वं गणकमुवतिलक ॥ २७२(१/२) ॥

राशिलब्धच्छेदमिश्रविभागसूत्रम् -

मिश्रादूनितसङ्ख्या छेदः सैकेन तेन शेषस्य ।
भागं हृत्वा लब्यं लाभोनितशेष एव राशिः स्यात् ।। २७३(१/२) ॥

अत्रोद्देशकः ।

केनापि किमपि भक्तं सच्छेदो राशिमिश्रितो लाभः ।
पञ्चशत्रिभिरधिका तच्छेदः किं भवेछब्धम् ॥ २७४(१/२) ॥

इष्टसङ्ख्यायोज्यत्याज्यवर्गमूलराश्यानयनसूत्रम्
योज्यत्याज्ययुतिः सरूपविषमाग्रश्नार्धिता वर्गिता
व्यग्रा बन्धहृता । च रूपसहिता त्याज्यैक्यशेषाग्रयोः ।
शेषेक्यार्धयुतोनित फलमिदं राशिर्भवेद्वाञ्छयोः
स्त्याज्यत्याज्यमहवयोरथ कृतेथूलं ददात्येव सः ।। २७५(१/२) ॥

अत्रोद्देशकः ।

राशिः कश्चिद्दशभिः संयुक्तः सप्तदशाभीरापि हीनः ।
मूलं ददाति शुदं तं राशिं स्यान्ममाशु वद गणक ॥ २७६(१/२) ॥

राशिस्सप्तभरूनो यः सोऽष्टादशभिरन्वितः कश्चित् ।
मूलं यच्छति शुद्धं विगणय्याचक्ष्व तं गणक ॥ २७७(१/२) ॥