94 गणितसारसङ्ग्रहः
प्रस्तारयोगभेदस्य सूत्रम् --
एकाद्योकोत्तरतः पदमूर्वधर्यतः क्रमोत्क्रमशः ।
स्थाप्य प्रतिलोमनं प्रतिलोमग्नेन भाजितं सारम् ॥ २१८ ॥
अत्रोद्देशकः।
वर्णाश्च रसानां कषायतिक्ताम्लकटुकलवणानाम्।
मधुररसन युतानां भेदान् कथयाधुना गणक ॥ २१९॥
वजेन्द्रनीलमरकतविद्ममुक्ताफलैस्त रचितमालायाः ।
कति भेदा युतिभेदात् कथय सरवे सम्यगाशु त्वम् ॥ २२०॥
केतक्यशोकचम्पकनीलोत्पलकुसुमराचितमालायाः ।
कति भेदा युतिभेदात्कथय सखे गणिततत्वज्ञ ॥ २२१ ॥
ज्ञाताज्ञातलाभमूलानयनसूत्रम्--
लाभानामअराशः प्रक्षपकतः फलानं ससाध्य ।
तेन हृतं तच्छब्ध मूल्यं त्वज्ञातपुरुषस्य ॥ २२२ ॥
अत्रोद्देशकः ।
समये केचिद्वणिजस्त्रयः क्रयं विक्रयं च कुर्वीरन् ।
प्रथमस्य षट् पुराण अष्टौ मूल्यं द्वितीयस्य ॥ २२३ ॥
न ज्ञायते तृतयस्य व्याप्तिस्तैर्नरैस्तु षण्णवतिः ।
अज्ञातस्यैव फलं चत्वारिंशद्वि तेनाप्तम् ॥ २२४ ॥
कस्तस्य प्रक्षेप वणिजोरुभयोर्भवेच्च को लाभः ।
प्रगणय्याचक्ष्व सरवे प्रक्षेपं यदि विजानासि ॥ २२५ ॥
भाठकानयनसूत्रम् –
भरभुतगतगम्यहाते त्यक्त्वा यजनदलनभारकृतेः ।
तन्मूलनं गम्यच्छन्न गन्तव्यभाजतं सारम् ॥ २२६ ॥
A M and B add त here ; netrically it is faulty.