पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 गणितसारसङ्ग्रहः

अत्रोद्देशकः ।

एकक्षयमेकं च द्विक्षयमेकं त्रिवर्णमेकं च ।
वर्णचतुष्के च वै पञ्चक्षयिकाश्च चत्वारः ॥ १७० ॥

सप्त चतुर्दशवर्णास्त्रिगुणितपञ्चक्षयाश्चष्टे ।
एतानेकीकृत्य ज्वलने क्षिप्त्वैव मिश्रवणं किम् ।

एतमिश्रसुवर्ण पूर्वैर्भक्तं च किं किमेकस्य ॥ १७१ ॥

इष्टवर्णानामिष्टस्ववर्णानयनसूत्रम्--

वैस्वैर्वर्णहतैर्मिश्री स्वर्णमिश्रेण भाजितम् ।
लब्धं वर्णं विजानीयात्तदिष्टातं पृथक् पृथक् ॥ १७२ ॥

अत्रोद्देशकः।

विंशतिपणास्तु षोडश वर्ण दशवर्णपरिमाणैः ।
परिवर्तिता वद त्वं कति हि पुराणा भवन्त्यधुना ॥ १७३ ॥

अष्टोत्तरशतकनक वणष्टांशत्रयेण सयुक्तम् ।
एकादशवर्णं चतुरुत्तरदशवर्णकैः कृतं च किं हेम ॥ १७४॥

अज्ञातवणनयनसूत्रम्-

कनकक्षयसंवर्गे मिी वर्णनमिश्रतः शोद्यम् ।
वर्णने हृतं वर्ण वर्णविशेषेण कनकं स्यात् ॥ १७५ ॥

अज्ञातवर्णस्य पुनरपि सूत्रम्

स्वर्णवर्णविनिहतयोगं खणैक्यदृढहताच्छोध्यम् ।
अज्ञातवर्णहेम्ना भक्तं वर्ण बुधाः प्राहुः ॥ १७६ ॥

अत्रोद्देशकः ।

षड्जलधिवह्निकनकैरस्त्रयोदशाष्टीवर्णकैः क्रमशः ॥


Here वह्नि is autabituted for रनल, and ष्टर्तुवर्णकैः /or ष्टवृतुक्षयेः as thereby
ho reading will be better grammatically.