पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 87

अत्रोद्देशकः ।

प्रथमस्य शक्रनीलाः षट् सप्त च मरकता द्वितीयस्य।
वब्राण्यपरस्याष्टावेकैकार्थं प्रदाय समाः ॥ १६४ ॥

प्रथमस्य शक्रनीलाः षोडश दश मरकता द्वितीयस्य ।
वज्ञास्तृतीयपुरुषस्याष्टौ ङौ तत्र दत्वैव ॥ १६५ ॥

तेषेकैकोऽन्याभ्यां समधनतां यान्ति ते त्रयः पुरुषाः ।
तच्छक्रनीलमरकतवज्ञाणां किविधा अधीः ॥ १६६ ॥

तथेविक्रयलाभेः मूलानयनसूत्रम्--

अन्योऽन्यमूल्यगुणिते विक्रयक्षक्ते क्रयं यदुपलब्धम् ।
तेनैकोनेन हतो लाभः पूर्वार्धेतं मूल्यम् ॥ १६७ ॥

अत्रोद्देशकः ।

त्रिभिः क्रीणाति सप्तैव विक्रीणाति च पञ्चभिः।
नव प्रस्थान् वणिक् किं स्याळाभो द्वासप्ततिर्धनम् ॥ १६८ ॥

इति मिश्रकव्यवहारे सकलङ्कीकारः समाप्तः ।

सुवर्णकुट्टीकारः ॥

इतः परं सुवर्णगणितरूपकुट्टीकारं व्याख्यास्यामः ।
समस्तेष्टवर्णेरेकीकरणेन सङ्करवर्णानयनसूत्रम्--

कनकक्षयसंवर्गे मिश्रवणहृतः क्षयो ज्ञेयः।
पवर्णप्रविभक्तं सुवर्णगुणितं फलं हेम्नः ॥ १६९ ॥