पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रैराशिकव्यवहारः । गतिनिवृत्तौ सूत्रम्-- निजनिजकालोड़तयोर्गमननिवृत्त्योर्विशेषणाजाताम् । दिनशुद्धगतिं न्यस्य त्रैराशिकविधिमतः कुर्यात् ।। २३ ।।। अत्रोद्देशकः । क्रोशस्य पञ्चभागं नौयाति दिनत्रिसप्तभागेन । 'वार्धी वातावडा प्रत्येति क्रोशनवमांशम् ।। २४ ॥ कालेन केन गच्छेत् त्रिपञ्चभागोनयोजनशतं सा । सङ्ख्याब्धिसमुत्तरणे बाहुबलिंस्त्वं समाचक्ष्व ॥ २५ ॥ सपादहेम त्रिदिनैस्सपञ्चमैनरोऽर्जयन् व्येति सुवर्णतुर्यकम् । निजाष्टमं पञ्चदिनैदलोनितैः स केन कालेन लभेत सप्ततिम् ॥ २६ ।।। गन्धेभो मदलुब्धषट्पदपदप्रोद्भिन्नगण्डस्थलः साधं योजनपञ्चमं व्रजति यष्षभिर्दलोनैर्दिनः ।। प्रत्यायाति दिनखिभिश्च सदलैः क्रोशद्विपञ्चांशकं ब्रूहि क्रोशदलोनयोजनशतं कालेन केनाप्नुयात् ॥ २७ ॥ वापी पयःप्रपूर्णा दशदण्डसमुच्छ्रिताब्जमिह जातम् । अङ्गलयुगलं सदलं प्रवर्धते सार्धदिवसेन ॥ २८ ॥ निस्सरति यन्त्रतोऽम्भः साधेनाह्वाङ्गले सविशे हे। शुष्यति दिनेन सलिलं सपञ्चमाहुलकमिनकिरणैः ।। २९ ॥ कूम नालमधस्तात् सपादपञ्चाङ्गलानि चाकृषति ।। साधैत्रिदिनैः पद्म तोयसमें केन कालेन ॥ ३० ॥ 1 B and K read तस्मिन्काले वाध.