सामग्री पर जाएँ

वराहपुराणम्/अध्यायः १९७

विकिस्रोतः तः
← अध्यायः १९६ वराहपुराणम्
अध्यायः १९७
[[लेखकः :|]]
अध्यायः १९८ →

ऋषिपुत्र उवाच ।।
दशयोजनविस्तारं ततो द्विगुणमायतम् ।।
प्राकारेण परिक्षिप्तं प्रासादशत शोभितम् ।। १ ।।
समालिखदिवाकाशं प्रदीप्तमिव तेजसा ।।
गोपुरं तूत्तमं तत्र प्रासादशतशोभितम् ।। २ ।।
नानायन्त्रैः समाकीर्णं ज्वालामालासमायुतम् ।।
देवतानामृषीणां च ये चान्ये शुभकारिणः ।। ३ ।।
प्रवेशस्तत्र तेषां हि विहितो धर्मदर्शिनाम् ।।
राजते गोपुरं सर्वं शारदाभ्रचयप्रभम् ।। ४ ।।
मानुषाणां सुकृतिनां प्रवेशस्तत्र निर्मितः ।।
अग्निघर्मसमाकीर्णं सर्वदोषसमन्वितम् ।। ५ ।।
आयसं गोपुरं तत्र दक्षिणं भीमदर्शनम् ।।
रौद्रं प्रतिभयाकारं सुतप्तं दुर्निरीक्षणम् ।। ६ ।।
प्रवेशो हि ततस्तेन विहितो रविसूनुना ।।
पापिष्ठानां नृशंसानां क्रव्यादानां दुरात्मनाम् ।। ७ ।।
पापानां चैव सर्वेषां ये चान्ये घातकारकाः ।।
औदुम्बरमवीचीकमुच्चावचमनःकृतम ।। ८ ।।
गोपुरं पश्चिमं तच्च दुर्निरीक्षं समन्ततः ।।
महता वह्निजालेन समालिप्तं भयानकम् ।। ९ ।।
दुष्कृतीनां प्रवेशार्थं यमेन विहितं स्वयम् ।।
तस्मिन् पुरवरे रम्ये रम्या परम शोभना ।। 197.१० ।।
सर्वरत्नमयी दिव्या वैवस्वतनियोजिता ।।
सभा परमसम्पन्ना धार्मिकैः सत्यवादिभिः ।। ११ ।।
जितक्रोधैरलुब्धैश्च वीतरागैस्तपस्विभिः ।।
सा सभा धर्मयुक्तानां सा सभा पापकारिणाम् ।।१२।।
सा सभा सर्वलोकस्य शुभस्यैवाशुभस्य च ।।
कर्मणा सूचितस्याथ सा सभा धर्मसंहिता ।। १३ ।।
अनिर्वर्त्यं यथा कर्म शास्त्रदृष्टेन कर्मणा ।।
निर्विशङ्का निराक्षेपा धर्मज्ञा धर्मपाठकाः ।। १४ ।।
चिन्तयन्ति च कार्याणि सर्वलोकहिताय ते ।।
यथादृष्टं यथाशास्त्रं यथाकालनिवेदकाः ।।१५ ।।
ततः सर्वे च तत्सर्वं चिन्तयन्ति सुयन्त्रिताः ।।
मनुः प्रजापतिश्चैव पाराशर्यो महामुनिः ।। १६ ।।
अत्रिरौद्दालकिश्चैव आपस्तम्बश्च वीर्यवान् ।।
बृहस्पतिश्च शुक्रश्च गौतमश्च महातपाः ।। १७ ।।
शङ्खश्च लिखितश्चैव ह्यङ्गिरा भृगुरेव च ।।
पुलस्त्यः पुलहश्चैव ये चान्ये धर्मपाठकाः ।। १८ ।।
यमेन सहिताः सर्वे चिन्तयन्ति प्रतिक्रियाम् ।।
सर्वे च कामप्रचुरा ये दिव्या ये च मानुषाः ।।१९।।
कुण्डलाभ्यां पिनद्धाभ्यामङ्गदाभ्यां महातपाः ।।
भ्राजते मुकुटस्तस्य ब्रह्मदत्तो महाद्युतिः ।।197.२०।।
तेजसा वचसा चैव दुर्निरीक्ष्यो महाबलः ।।
एकस्थमिव सर्वेषां तेजस्तेजस्विनां तदा ।। २१ ।।
तस्य पार्श्वे महादिव्या ऋषयो ब्रह्मवादिनः ।।
दीप्यमानाः स्ववपुषा वेदवेदाङ्गपारगाः ।। २२ ।।
वेदार्थानां विचारज्ञाः सत्यधर्मपुरस्कृताः ।।
छन्दःशिक्षाविकल्पज्ञाः सर्वशास्त्रविकल्पकाः ।। २३ ।।.
निरुक्तमतिवादाश्च सामगान्धर्वशोभिताः ।।
धातुवादाश्च विविधा निरुक्ताश्चैव नैगमाः ।। २४ ।।
तत्र चैव मया दृष्टा ऋषयः पितरस्तथा ।।
भवने धर्मराजस्य प्रगायन्तः कथाः शुभाः ।। २५ ।।
तस्य पार्श्वे मया दृष्टः कृष्णवर्णो महाहनुः ।।
उत्तमः प्रकृताकार उर्द्ध्वरोमा निराकृतिः ।। २६ ।।
वामबाहुश्च दण्डेन प्रवरेण समन्वितः ।।
विकृतास्यो महादंष्ट्रो नित्यक्रुद्धो भयानकः ।। २७ ।।
शिक्षार्थे धर्मराजेन सन्दिष्टः स पुनः पुनः ।।
शृणोति चैव कालोऽसौ नित्ययुक्तः सनातनः ।। २८ ।।
तथान्ये चापरे तत्र शासनेषु समाहिताः ।।
दृष्टास्तत्र मया तात सर्वतेजोमयी शुभा ।। २९ ।।
यमेन पूज्यमाना सा दिव्यगन्धानुलेपनैः ।।
संहारः सर्वलोकानां गतीनां च महागतिः ।।197.३०।।
अतः परं न कर्त्तव्यं साधनं कथितं बुधैः ।।
बिभ्यंति ह्यसुरास्तत्र ऋषयश्च तपोधनाः ।।३१।।
असुराश्च सुराश्चैव योगिनश्च महौजसः ।।
नमस्कार्या च पूज्या च मोहिनी सर्वसाधनी ।। ३२ ।।
तस्याङ्गेभ्यः समुद्भूता व्याधयः क्लेशसम्भवाः ।।
अपराश्च महाघोराः व्याधयः कालनिर्मिताः ।। ३३ ।।
पौरुषेण समायुक्ताः सर्वलोकनयायताः ।।
प्रकृत्या दुर्विनीतश्च महाक्रोधः सुदारुणः ।। ३४ ।।
महासत्त्वो महातेजाः जरामरणवर्जितः ।।
मृत्युर्दृष्टा दुराधर्षो दिव्यगन्धानुलेपनः ।। ३५ ।।
गायका हासकाश्चैव सर्वजीवप्रबोधकाः ।।
मृत्युना सहिता नित्यं कालज्ञा कालसम्मताः ।। ३६ ।।
दिव्याभरणशोभाभिः शोभमानाः सुतेजसः ।।
सवालव्यजनच्छन्नैः केचित्तत्र महौजसः ।। ३७ ।।
पर्यास्तरणसंछन्नेष्वासनेषु तथा परे ।।
पूज्यमाना मया दृष्टाः केचित्तत्र महौजसः ।। ३८ ।।
अनेकाश्च नरास्तत्र वेदनाश्च सुदारुणाः ।।
नारीनरस्वरूपाश्च मया दृष्टास्त्वनेकशः ।। ३९ ।।
कामक्रोधविचारिण्यो नानारूपधराः स्त्रियः ।।
जीवभक्षकरा घोरास्तीव्ररोषा भयानकाः ।।197.४०।।
तासां हलहलाशब्दः सर्वासां च समन्ततः ।।
धर्मराजसमीपे तु दारयन्ति धरामिमाम् ।।४१।।
कूष्माण्डा यातुधानाश्च राक्षसाः पिशिताशनाः ।।
एकपादा द्विपादाश्च त्रिपादा बहुपादकाः ।। ४२ ।।
एकबाहुर्द्विबाहुश्च त्रिबाहुर्बहुबाहुकः ।।
शङ्कुकर्णा महाकर्णा हस्तिकर्णास्तथाऽपरे ।। ४३ ।।
केचित्तु तत्र पुरुषाः सर्वशोभाविशोभिताः ।।
केयूरैर्मुकुटैश्चान्ये चित्रैरङ्गैस्तथाऽपरे ।। ४४ ।।
स्रग्विणो बद्धपादाश्च सर्वाभरणभूषिताः ।।
सकुठाराः सकुद्दालाः सचक्राः शूलपाणयः ।। ४५ ।।
सशक्तितोमराः केचित्सधनुष्का दुरासदाः ।।
असिहस्तास्तथा चान्ये तथा मुद्गरपाणयः ।। ४६ ।।
सज्जिता दधिहस्ताश्च गन्धहस्ता ह्यनेकशः ।।
विचित्रभक्षहस्ताश्च वस्त्रहस्तास्तथैव च ।। ४७ ।।
धूपान्प्रगृह्य विविधान्वासांसि शुभदर्शनाः ।।
शिबिकाश्च महाशोभा यानानि विविधानि च ।। ४८ ।।
वाजिकुञ्जरयुक्तानि हंसयुक्तानि चापरे ।।
शरभै ऋषभैश्चापि हस्तिभिश्च सुदर्शनैः ।। ४९ ।।
मयूरैः सारसैश्चैव चक्रवाकैश्च वाजिभिः ।।
एवंरूपा मया दृष्टास्तत्र चान्ये भयानकाः ।। 197.५० ।।
उज्ज्वला मलिनाश्चैव जीर्णवस्त्रा नवांशुकाः ।।
सुमनाभिमना मूका मारकाः शतमारका ।। ५१ ।।
समार्जारी काचवर्णा कृष्णा चैव कलिस्तथा ।।
धर्महस्ता यशोहस्ताः कीर्त्तिहस्तास्तथापरे ।। ५२।।
एते पुरोगमास्तत्र कृतान्तस्य महात्मनः ।।
यद्येतानि यजेद्विप्रो नास्ति तस्य पराभवः ।।५३।।
नमस्कार्याश्च पूज्याश्च आपन्नेन हि नित्यशः ।।
परितुष्य कृता नित्यं विहिताः सार्वलौकिकाः ।।५४।।
इति श्रीवराहपुराणे संसारचक्रे कृतान्तकालमृत्युकिङ्करवर्णनं नाम सप्तनवत्यधिकशततमोऽध्यायः ।। १९७ ।।