सामग्री पर जाएँ

वराहपुराणम्/अध्यायः १९६

विकिस्रोतः तः
← अध्यायः १९५ वराहपुराणम्
अध्यायः १९६
[[लेखकः :|]]
अध्यायः १९७ →

अथ धर्मराजपुरवर्णनम् ।।
वैशम्पायन उवाच ।।
तेषां तद्वचनं श्रुत्वा ऋषीणां भावितात्मनाम् ।।
उवाच वाक्यं वाक्यज्ञः सर्वं निरवशेषतः ।। १ ।।
नाचिकेत उवाच ।।
श्रूयतां द्विजशार्दूलाः कथ्यमानं मया द्विजाः ।।
योजनानां सहस्रं तु विस्तराद्द्विगुणायतम् ।। २ ।।
द्विगुणं परिवेषेण तद्वै प्रेतपतेः पुरम् ।।
भवनैरावृत्तं दिव्यैर्जाम्बूनदमयैः शुभैः ।। ३ ।।
हर्म्यप्रासादसंबाधमहाट्टालसमन्वितम् ।।
सौवर्णेनैव महता प्राकारेणाभिवेष्टितम् ।।४ ।।
कैलासशिखराकारैर्भवनैरुपशोभितम् ।।
तत्र वै विमला नद्यस्तोयपूर्णाः सुशोभनाः ।। ५ ।।
दीर्घिकाश्च तथा कान्ता नलिन्यश्च सरांसि च ।।
तडागाश्चैव कूपाश्च वृक्षषण्डाः सुशोभनाः ।।६।।
नरनारीसमाकीर्णा गजवाजिसमाकुलाः ।।
नानादेशसमुत्थानैर्नानाजातिभिरेव च ।।७।।
सर्वजीवैस्तथाकीर्णं तस्य राज्ञः पुरोत्तमम्।।
क्वचिद्युद्धं क्वचिद्द्वंद्वं तेन बद्धो यमालये ।।८।।
क्वचिद्गायन् हसंश्चैव क्वचिद्दुःखेन दुःखितः ।।
क्वचित्क्रीडन्यथाकर्म क्वचिद्भुञ्जन् क्वचित्स्वपन् ।।९।।
क्वचिन्नृत्यन्क्वचित्तिष्ठन् क्वचिद्बन्धनसंस्थितः ।।
एवं शतसहस्राणि तस्य राज्ञः पुरोत्तमे ।।196.१०।।
स्वकर्मभिः प्रदृश्यन्ते स्थूलाः सूक्ष्माश्च जन्तवः।।
मया दृष्टा द्विजश्रेष्ठास्तस्य राज्ञः पुरोत्तमे ।। ११ ।।
अङ्गानि चैव सीदन्ति मनो विह्वलतीव मे ।।
दिव्यभावाः स्पृशन्त्येते चिन्तयानस्य तत्फलम् ।। १२ ।।
तथापि कथयिष्यामि यथादृष्टं तथाश्रुतम् ।।
पुष्पोदका नाम तत्र नदीनां प्रवरा नदी ।। १३ ।।
दृश्यते न च दृश्येत नानावृक्षसमाकुला ।।
सुवर्णकृतसोपाना दिव्यकांचनवालुका ।। १४ ।।
प्रसन्नेन च तोयेन शीतलेन सुगन्धिना ।।
पुष्प्यत्फलवनाकीर्णा नाना पक्षिसमाकुला ।। १५ ।।
भ्राजते सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।।
तस्यास्तीरे मया दृष्टाः पादपाश्च सहस्रशः ।। १६ ।।
अमराः क्रीडमानाश्च जलक्रीडां पुनःपुनः ।।
विशालजघना यस्यां गन्धर्वाः सामगा इव ।। १७ ।।
भुजङ्गावनताङ्ग्यश्च किन्नर्यश्च सुगायनाः ।।
दिव्यभूषणसम्भोगैः क्रीडन्त्यत्र समागताः ।। १८ ।।
एवं नारीसहस्राणि तत्र दिव्यानि नित्यशः ।।
क्रीडन्ति सलिले तत्र प्रासादेषु शुभेषु च ।। १९ ।।
तत्रापरे वृक्षषण्डा नित्यपुष्पफलान्विताः ।।
ते च कामप्रदा नित्यं तथा द्विजसमायुताः ।। 196.२० ।।
प्रमदाश्च जले तत्र कामरूपाः सुमेखलाः ।।
रमयन्त्यो नरास्तत्र यथाकामं यथासुखम् ।। २१ ।।
तां नदीं क्षोभयन्त्यस्ताः क्रीडन्ति सहिताः प्रियैः ।।
गायन्ति सलिले काश्चिन्मधुरं मधुविह्वलाः ।। २२ ।।
जलतूर्यनिनादेन भूषणानां स्वनेन च ।।
भाति सा निम्नगा दिव्या दिव्यरत्नैरलंकृता ।। २३ ।।
वैवस्वती नाम महानदी सा शुभा नदीनां प्रवराऽतिरम्या ।।
प्रयाति मध्ये नगरस्य नित्यं मातेव पुत्रं परिपालयन्ती ।। २४ ।।
तोयानुरूपा च मनोहरा च दिव्येन तोयेन सदैव पूर्णा ।।
यस्यास्तु हंसाः पुलिनेषु मत्ताः कुन्देन्दुवर्णाः प्रचरन्ति नित्यम् ।।२५।।
रथाङ्गसाह्वैः प्रवरैश्च पद्मैः प्रतप्तजाम्बूनद कर्णिकाभिः ।।
या दृश्यते चैव मनोज्ञरूपा सुवर्णसोपानयुता सुकान्ता ।। २६ ।।
यस्यास्तु तोयं विमलं सुगन्धि स्वादु प्रसन्नं त्वमृतोपमं च ।।
वृक्षास्तु यस्या वनखण्डजाताः सदा शुभैः पुष्पफलैरुपेता ।। २७ ।।
नार्यः सुरूपा मदविह्वलाश्च क्रीडन्ति ता यत्र मनोज्ञरूपाः ।।
यस्यां जनः क्रीडनताडनाद्यैर्विवर्णतां याति न वै कदाचित् ।। २८ ।।
या देवतानामपि पूजनीया तपोनिधीनां च तथा मुनीनाम् ।।
या दृश्यते तोयभरेण कान्ताकृतिः कवीनामिव निर्मलार्था ।। २९ ।।
जलं च दत्तं बहुभिर्नरैश्च तस्याः स्वरूपप्रतिमा च निष्ठा ।।
प्रासादपङ्क्तिर्ज्वलनप्रकाशा तस्यास्तु तीरे बहुभक्तिरम्याः ।। 196.३० ।।
वादित्रगीतस्वनतालयुक्ता गायन्ति नार्यः सहिताः सदा हि ।।
कन्याकुलानां मृदुभाषितानि मनोहराणां च वनेषु तेषु ।। ३१ ।।
कुर्वन्ति संहर्षमिव स्वनेन मनोज्ञरूपा दिवि देवतानाम् ।।
मृदङ्गनादश्च सुतन्त्रियुक्तगीतध्वनिश्चैव सुवंशयुक्तः ।। ३२।।
प्रासादकुञ्जेषु विहार्यमाणा न तृप्तिमेवं बहु ताः प्रयान्ति ।।
गन्धः सुगन्धोऽगुरुचन्दनानां वातः शुभो वाति सुशीतमन्दः ।। ३३ ।।
क्वचित् सुगन्धः प्रचचार भूयः प्रासादरोधं प्रविरूढमार्गः ।।
क्वचिज्जनाः क्रीडनकावसक्ताः क्वचिच्च नारीनरगीतशब्दाः ।। ३४ ।।
तथाऽपरे क्रीडनकाः सकान्ताः सुवर्णवेदीकृतसानुशोभाः ।।
विमानभूताः प्रचरन्ति तोये प्रमत्तनारीनरसंकुलाश्च ।। ३५ ।।
शक्यो विभागो न हि रम्यताया ह्यसौ दिनैर्वा बहुभिः प्रवक्तुम् ।।
नैषा कथा कर्मसमाधियुक्ता शक्त्या प्रवक्तुं दिवसैरनल्पैः ।। ३६ ।।
इति श्रीवराहपुराणे संसारचक्रे धर्मराजपुरवर्णनं नाम षण्णवत्यधिकशततमोऽध्यायः ।। १९६ ।।