पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
गणितसारसङ्गहः

नवमं दशकोट्यस्तु दशमं शतकोटयः ।

अर्धदं रुद्रसंयुक्तं न्यर्बुदं द्वादशं भवेत् ॥ ६५ ॥

खर्व त्रयोदशस्थानं महाखर्व चतुर्दशम् ।

पद्मं पञ्चदशं चैव महापद्मं तु षोडशम् ॥ ६६ ॥

क्षोणी सप्तदशं चैव महाक्षोणी दशाष्टकम् ।

शङ्खं नवदशं स्थानं महाशङ्खं तु विंशकम् ॥ ६७ ॥

क्षित्यैकविंशतिस्थानं महाक्षित्या द्विविंशकम् ।

त्रिविंशकमथ क्षोभं महाक्षोभं चतुर्नयम् ॥ ६८ ॥

अथ गणकगुणनिरूपणम् ।

लघुकरणोहापोहानालस्यग्रहणधारणोपायैः।

व्याक्तिकराङ्गविशिष्टैर्गणकोऽष्टाभिर्गुणैर्ज्ञेयः ॥ ६९ ।।

इति संज्ञा समासेन भाषिता मुनिपुङ्गवैः।

विस्तरेणागमाद्वेद्यं वक्तव्यं यदितः परम् ॥ ७० ॥

इति सारसङ्गहे गणितशास्त्रे महावीराचार्यस्य कृतौ संज्ञाधिकारस्समाप्तः ॥