शान्तासु सच्चिदानन्दांस्त्रीनष्येवं विचिन्तयेत् ॥ २६ ॥ |
शिलादौ जडपदार्थं नामरूपे द्वे असत्ये त्यक्त्वा सन्मानचिन्तनं सत्ता मात्रस्य सत्यांशस्य चिन्तनं कुर्यात् । घोरमूढधियोः दुःखं मायांशं त्यक्त्वा सच्चिद्विचिन्तनं सच्चितोर्विचिन्तनं कुर्यात् । शान्तासु सचिदानन्दान् त्रीनप्येवं वृत्यंशं यत्तवा विचिन्तयेत् । सर्वत्र मायाकार्यं परित्यजेदित्यर्थः ॥ २६ ॥
उक्तध्याने तारतम्यमाह, कनिष्ठेति
कनिष्ठमध्यमोत्कृष्टास्त्रिस्नश्चिन्ताः क्रमादिमाः ॥ २७ ॥ |
इमाः तिस्रः सच्चिदानन्दविषयिकाः चिन्ताः क्रमात् कनिष्ठमध्यमोत्कृष्टाः नीचमध्यमाधिकाः इत्युच्यन्ते । सन्मात्रविषयिणी कनिष्ठा सच्चिद्विषयिणी मध्यमा त्रितयविषयिण उत्तमेति विवेकः ।।२७।।
निर्गुणब्रह्मध्यानानधिकारिणोऽनुग्रहाय मिश्रब्रह्मज्ञानेऽधिकारं दर्शयति, मंदस्येति ।
मन्दस्य व्यवहारेऽपि मिश्रब्रह्मणि चिन्तनम् । |
मन्दस्य मन्दबुद्धेः लौकिकव्यवहारे प्रवृत्तस्यापि मिश्रब्रह्मणि सप्रपंच ब्रह्मणि चिन्तनं उत्कृष्टमिति वक्तुमेव अत्र अस्मिन् प्रकरणे विषयानन्द ईरितः। व्यवहारप्रवृत्तस्य सगुणब्रह्मोपासने अधिकारः न तु निर्गुणोपासन इति भावः । बहुव्याकुलितचित्तानां विचारात्तत्वधीर्न ही (९-२३२) त्यन्यत्रोक्तम् ॥२८॥
अथ बुद्धिवृत्तिविरहितध्यानमभिदधाति, औदासीन्येति ।
औदासीन्ये तु धीवृत्तेश्शैधिल्यादुत्तमोत्तमम् । |
औदासीन्ये तु सुखदुःखान्तरालेषु वृत्तिरहिता तूष्णीमवस्थितिरौदासीन्यं (११-९४) तस्यां धीवृत्तेः शैथिल्यादुतमोत्तमं उतमात् पूवोंक्तध्यानत्रितयादुतमं उकृष्टं । वासनानन्दे चिन्तनं ध्यानमन्यदुक्तम् । एवं च चतुर्विधं ध्यानम् ।