अथ
कल्याणपीयूषव्याख्यासमेता
पंचदश
ब्रह्मानन्दे विषयानन्दप्रकरणम् ॥१५॥
विषयानन्दस्य ब्रह्मानन्दस्य द्वारभूतत्वकथनम् ।
अथात्र विषयानन्दो ब्रह्मानन्दांशरूपभाक् । |
अथ इत्यानंतयार्थे । अत्र अस्मिन् प्रकरणे ब्रह्मानन्दांशरूपभाक् ब्रह्मा नन्दस्य यो अंशः तस्य रूपं भजतीति तथाभूतः अत एव हारभूतः ब्रह्मनन्दप्राप्ता वुपायभूतः । अंशिप्राप्तावंशप्ताप्तेरुपायत्वं लोके प्रसिद्धम् । अतो ब्रह्मानन्दोपयोगित्वं विषयानन्दस्याक्षतमिति भावः । एतेन मोक्षशास्त्रे लौकिकस्य विषयानन्दस्य निरू पणमसंबद्धमित्यपास्तम् । एवं भूतो विषयानन्दरूपरसादयो विषयाः तेषामानन्दो निरूप्यते । तदंशत्वं कुतोऽवगम्यते इत्यत आह,तदिति । विषयानन्दस्य तदंशत्वं तस्य ब्रह्मानन्दस्यैकदेशत्वं श्रुतिर्जगौ ॥१॥
‘एषोऽस्य परमानन्दः। एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजी- विन्ती’ (ट्ट. ४. ३. ३२.) त्याकारिकां तां श्रुतिमर्थतः पठतेि, एष इति ।
एषोऽस्य परमानन्दो योऽखंडैकरसात्मकः । |
अस्य परब्रह्मणो य एषः परमानन्दः सोऽखंडैकरसात्मकः भेदत्रयशून्य- मानन्दरसघनस्वरूपं भवति । अन्यानि भूतानि प्राणिन एतस्य ब्रह्मानन्दस्य मात्रामेव अंशमेव उपभुंजते अनुभवन्ति ॥२॥
मनोवृत्तीनां त्रैविध्योक्तिः ।
निरंशस्याधिमन्तरा सांशात्वासंभवाद्विषयानन्दस्य तदंशत्वप्रदर्शनाय