सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१४॥ ]
५६७
कल्याणपीयूषव्याख्यासमेता

धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् ।
धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमद्य संपन्नम् ॥ ६१ ॥

धन्योऽहं धन्योऽहं तृप्तेमें कोपमा भवेल्लोके ।
धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः॥ ६२॥

अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् ।
अस्य पुण्यस्य संपत्तेरहो वयमहो वयम् ।। ६३ ॥

अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ।
अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् ॥ ६४ ॥

 एते श्लोकास्तृप्तिदीपे ७ एकाधिकनवत्युचरद्विशततमलोकादारभ्य सप्ताधि कनवत्युत्तरद्विशततमश्लोकपर्यंतं व्याख्यातः ।

 अध्यायार्थे फलकथनपूर्वकमुपसंहरति, ब्रह्मेते ।

ब्रह्मानन्दाभिधे ग्रन्थे चतुर्थोऽध्याय ईरितः ।
विद्यानन्दस्तदुत्पत्तिपर्यन्तोऽभ्यास इष्यताम् ॥ ६५॥

 स्पष्टोऽर्थः ॥ ६५॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपद्मावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनात्रि

गोत्रसमुद्धृतेन लिङ्गनसोमयाजिना विरचितेयं पञ्चदश्यां

ब्रह्मानंदे विद्यानंदाख्यप्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति ब्रह्मानंदं विद्यानंदाख्यप्रकरणम् ।