१-१७ श्लोकेषु प्रपञ्चयन्नादौ दुःखस्य द्वैविध्यं प्रदर्शयति, ऐहिकमिति ।
ऐहिकं चामुष्मिकं चेत्येवं दुःखं द्विधेरितम् । |
स्पष्टोऽर्थः ॥१॥
बृहदारण्यकं वचनमाह, आत्मानमिति ।
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । |
तृप्तिदीपे प्रथमश्लोके व्याख्यातमिदं वचनम् ॥ ५॥
आत्मनि शोकसंबंधाविवक्षया तद्वेदमाह, जीवेति ।
जीवात्मा परमात्मा चेत्यात्मा द्विविध ईरितः ।। |
स्पष्ट पूर्वार्धः । आत्मनो जीवत्वे कारणमाह चिदिति त्रिभिः स्थूलादि देहैः चितः ऐक्यभ्रमाज्जीवस्सन् भोक्ता भवति । जाग्रदादिविमोक्षान्तस्य संसार स्यानुभूतिमापद्यत इति ७-४ श्लोक उक्तः ॥ ६॥
परात्मनः स्वरूपमाह, परात्मेति ।
परात्मा सच्चिदानन्दस्तादात्म्यं नामरूपयोः । |
परात्मा सच्चिदानन्दः । तर्हि कथं तस्य त्रिभिर्देहैस्तादाल्यमित्यत आह, तादाभ्यमिति। नामरूपयोरधिष्ठानभूतत्वात्तादात्म्यं गत्वा प्राप्य भोग्यत्वमापन्नः कदा भोग्यत्वाद्यभावः संपद्यत इत्यत आह, तदिति । तद्विवेके तस्य शरीरत्रयस्य जगतश्च विवेके पार्थक्यज्ञाने सति तु उभयं भोक्तृभोग्यरूपं नास्तीति भावः ॥७॥
उक्तार्थं विवृणोति, भोग्येति ।
भोग्यमिच्छन् भोक्तुरर्थे शरीरमनुसंज्वरेत्। |