सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


ब्रह्मानन्दे - विद्यानन्दप्रकरणम् ॥ १४॥

विद्यानन्दस्वरूपविचारः ।

योगेनात्मविवेकेन द्वैतमिथ्यात्वचिन्तया ।
ब्रह्मानन्दं पश्यतोऽथ विद्यानन्दो निरूप्यते ॥ १॥

 योगेन दुःखसंयोगवियोगो योगः (१०-१०७, "शनैशनैरुपरमेदि"त्यादि श्लोकषट्केनोक्तः तेन । आत्मविवेकेन द्वैतमिथ्यात्वचिन्तया च ब्रह्मानन्दं पश्यतो ऽनुभवतो विद्यानन्दोऽथास्मिन् प्रकरणे निरूप्यते। विद्यानन्दस्य ब्रह्मानन्दादीनामेक तमत्वमेकादशप्रकरणे एकादशश्लोकेनोक्तम् ॥१॥

 तत्स्वरूपं विशदयति, विषयेति ।

विषयानन्दवद्विद्यानन्दो धीवृत्तिरूपकः ।
दुःखाभावादिरूपेण प्रोक्त एष चतुर्विधः ॥ २॥

 स्पष्टोऽर्थः ॥२॥

विद्यानन्दस्य चातुर्विध्यविचारः ।

 उक्तं चातुर्विध्यं प्रदर्शयति, दुःखेति ।

दुःखाभावश्च कामावातिः कृतकृत्योऽहमित्यसौ।
प्राप्तप्राप्योऽहमित्येवं चातुर्विध्यमुदाहृतम् ॥ ३ ॥

 तृप्तिदीपे ३२-३३ श्लोकयोर्व्याख्यातोऽयंश्लोकः ॥ ३ ॥

 तत्रोक्तानां सप्तावस्थानां कूटस्थविषयकत्वं चिदाभासस्यानुभूयमानत्वं च ४३ श्लोकपर्यन्तं प्रदर्श्य, ४६ श्लोके दिङ्मात्रेण प्रदर्शितं दुःखाभावस्वरूपमत्र