तत्राविचारः कारणमिति कथं निश्चितमित्याह, कुलालेति ।
कुलालव्यापृतेः पूर्वो यावानंशः स नो घटः। |
कुलालव्यापृतेः पूर्वः कुलालस्य घटाभिव्यंजकव्यापारात्प्राक् विद्यमानो मृदो यावानंशः स घटो न भवति । एवं च घटस्य घटत्वेन न व्यवहारात्तस्य व्यवहारस्याविचारमूलकत्वं स्पष्टमेवेति भावः । ननु तर्हि मुख्यं घट व्यवहारविषयत्वं कस्येत्यत आह,पश्चादिति । पश्चात्तु कुलालव्यापारादनन्तरंभाविनि पृथुबुध्नादि मत्वे तद्विकारे एव कुंभता घटपदव्यवहार्यता युक्ता हि । तथा कायोत्पत्यनन्तरमेव घटशब्दव्यवहारस्य लोके दर्शनात् तत्रैव घटव्यवहारः प्रसिद्ध इति स एव मुख्य व्यवहार इति प्रसिद्धद्योतकेन हि न प्रतीयते । अत्रेदं बोद्धव्यम् । घटे मृदंशः कुलालादिव्यापाराभिव्यक्तपृथुबुद्ध्नोदरादिविकारांशश्चेति द्वादंशौ । तत्र कुलालादि- व्यापारात् पूर्वं एव विद्यमानो मृदंशो न घटो भवति । अतः पृथुबुद्ध्नोदराद्याकार एव घटः स्यात् । तदाप्युभावंशावेकीकृत्याविचारात् घट इति व्यवहार इति ॥३४॥
नन्वेतावता प्रबंधेन मृदतिरिक्तस्य घटस्य साधनेन तस्य पारमार्थिकत्व मायाति । एवं पारमार्थिकस्य घटस्य कथमपारमार्थिकानिर्वचनीयशक्तिकार्य- त्वमुपपन्नमित्याशंक्य तस्यापि पारमार्थिकत्वं नास्तीत्याह,नेति ।
स घटो न मृदो भिन्नो वियोगे सत्यनीक्षणात् । |
स घटो मृदो न भिन्नः। कुतः? मृदो वियोगे सति मृदंशस्य नाशे सति तस्य घटस्य अनीक्षणात् अदर्शनात् । मृद्भिन्नतया घटस्यादर्शनान्न घटो मृदो भिन्न इत्यर्थः । तर्ह्यभिन्नोऽस्त्वित्याशंक्याह, नेति । घटो मृदोऽभिन्नोऽपि न । कुत: ? पुरा घटोत्पत्ते: प्राक् पिंडदशायां घटस्य अनवेक्षणात् अदर्शनात् । यदि मृदभिन्नो घटस्तदा मृद्दशायामपि घटो दृश्येत । न तदा दृश्यते । एवं च । मृद्भिन्नत्वेन मृदभिन्नत्वेन वा निर्वक्तुमशक्यतयाऽनिर्वचनोयोऽपारमार्थिकोऽयं घटः। तस्यानिर्वचनीयापारमार्थिकशक्तिकार्यत्वमुपपद्यते ॥ २५॥