पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५२९
कल्याणपीयूषव्याख्यासमेता

 तदेतदाह, अत इति ।

अतोऽनिर्वचनीयोऽयं शक्तिवत्तेन शक्तिजः।
अव्यक्त शक्तिरुक्ता व्यक्तित्वे घटनामभृत् ॥ ३६ ॥

 अतोऽयं घटः शक्तिवदनिर्वचनीयः। स्वकारणान्मृदो भिन्नोऽभिन्नो वेति वक्तुमशक्यः । तेन उभयोस्साम्येन शक्तिजो मृन्निष्ठशक्तेरुत्पादितः। एवं चावास्त विकशक्तिकार्यत्वमस्य नानुपपन्नमिति भावः । ननु शक्तितत्कार्ययोरुभयोरप्यनिर्वचनीयत्वे तयोर्व्यवहारभेदनियामकं किमित्यत आह अव्यक्तत्व इति । अव्यक्तत्वे निगूढदशायां शक्तिरित्युक्ता शक्तिरिति व्यवहारः । कार्यरूपेण व्यक्तित्वे घटनामभृत् घट इति नाम्ना व्यवहारास्पदो भवति । द्वितीयप्रकरणे विषयोऽयं प्रसक्तानुप्रसक्त्या विचारितः । अत्र तु प्रकरणविषयानुसारतो विपुलतरं विचारित इति बोध्यम् ॥ ३६ ॥

 एवं मायायाः व्यक्ताव्यक्तत्वे लौकिकमायादृष्टान्तेन द्रढयति, ऐन्द्रेति ।

ऐन्द्रजालिकनिष्ठाऽपि माया न व्यज्यते पुरा ।
पश्चाद्गंधर्वसेनादिरूपेण व्यक्तिमाप्नुयात् ॥ ३७ ॥

 स्पष्टोऽर्थः ॥ ३७ ॥

वाचारंभणश्रुतेरर्थविचारः।

 एवं शक्तितत्कार्ययोरवास्तवत्वं शक्त्याश्रयस्य मृदादेर्वास्तवत्वं च श्रौतवाक्येन द्रढयति, एवमिति ।

एवं मायामयत्वेन विकारस्यानृतात्मताम् ।
विकाराधारमृद्वस्तुसत्यत्वं चाब्रवीच्छ्रुतिः ॥ ३८ ॥

 स्पष्टोऽर्थः ॥ ३८ ॥

 तां श्रुतिमर्थतः पठति, वागिति ।

वाङ्निष्पाद्यं नाममात्रं विकारो नास्य सत्यता ।

67