भवति । प्रधानस्संपद्यते ॥ ४४ ॥
तत्र दृष्टान्तमाह, अध्येतेति ।
अध्येता वह्निरित्यत्र सन्नप्यग्निर्न गृह्यते । |
“अयमध्येता वह्नि"रित्यत्र अग्निः सन्नपि तत्र विद्यमानोऽपि वेदाध्येतृत्व रूपेऽर्थेऽयोग्यत्वेन अध्ययनानुथयोगित्वान्न गृह्यते । वटुरेव योग्यत्वात् अग्निगत शुचित्वपावनत्वादिगुणविशिष्ट एव गृह्यते ॥१५॥
अथ मिथ्यात्मनो देहादेः प्राधान्यप्रयोजकव्यवहारं दर्शयति, कृश इति ।
कृशोऽहं पुष्टिमाप्स्यामीत्यादौ देहात्मतोचिता। |
अहं कृशः पौष्टिकवस्तुसेवनेन पुष्टिमाप्स्यामीत्यादौ देहात्मता कार्श्यपुष्ट्यादियोग्यदेहादेरेव आत्मता उचिता । तत्रोपपतिमाह , नेति । अत्र निजकार्श्यप्रतीकारावसरे पुष्टिहेत्वन्नभक्षणे पुष्टेर्हेतुभूतस्यानस्य भक्षणे पुत्रं न विनिंयुक्ते; तत्र देहादेरेव विनियोगान्मिथ्यात्मभूतस्य तस्यैव प्राधान्यमित्यर्थः ॥ ४६ ॥
एवमेव कर्तात्मनः प्राधान्यप्रयोजकव्यहारं दर्शयति तपसेति ।
तपसा स्वर्गमेष्यामीत्यादौ कर्त्रात्मतोचिता । |
तपसा स्वर्ग एष्यामि संपादयामीत्यादौ कर्त्रात्मता अहं करोमीति । कर्तृत्वाभिमानाविष्टः विज्ञानमयः कर्ता तस्यैव प्रधानात्मता उचिता । ततः अस्मिन् जन्मनि वपुर्भोगं वपुषोऽनुभवमनपेक्ष्य कृच्छ्रादिकं प्राजापत्यादिकृच्छ्रादिकं शरीर एकं चरेत् आचरेत् ॥ ४७ ॥
अथ साक्षिणः प्राधान्यप्रयोजकव्यवहारं दर्शयति, मोक्ष्य इति ।
मोक्ष्येऽहमित्यत्र युक्तं चिदात्मत्वं तदा पुमान् । |