सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४९९
कल्याणपीयूषव्याख्यासमेता

सत्यप्यात्मनि लोकोऽस्ति नापुत्रस्यात एव हि ।
अनुशिष्टं पुत्रमेव लोक्यमाहुर्मनीषिणः ॥ ३५॥

 यतः पुत्रस्य मुख्यमात्मत्वं अत एव आत्मनि पितरि स्वस्मिन् सत्यपि अपुत्रस्य पितुः लोको नास्ति । हि पुराणप्रसिद्धम् । एवं पुत्राभावे लोकाभाव इति व्यतिरेकमुखेन पुत्रस्य मुख्यात्मत्वं प्रतिपाद्यन्वयमुखेन तमतिपादकं वाक्यमर्थतः पठति । अनुशिष्टमिति मनीषिणः पंडिता अनुशिष्टं वक्ष्यमाणैः "त्वम् ब्रह्मे” (बृ. १.५.१७) त्यादिभिर्मंंत्रैः शिक्षितमेव पुत्रं लोक्यं लोकाय हितं परलोकसाधनं आहुः । अनेनानुशिष्टपुत्रस्य सत्त्वे परलोक इत्यन्वयो दर्शितः । एवमन्वयव्यतिरे फाभ्यां परलोकोपयोगितया पुत्रस्य । मुख्यामत्वं सिद्धमिति भावः ॥ ३५॥

 न केवलमामुष्मिकसुखसाधनं पुत्रः किंत्वैहिकामुष्मिकस्यापीत्याह, मनुष्येति ।

मनुष्यलोको जय्यः स्यात्पुत्रेणैवेतरेण नो।
मुमूर्षुर्मत्रयेत्पुत्रं त्वं ब्रह्मेत्यादिमंत्रकैः ॥ ३६॥

 मनुष्यलोकः पुत्रेणैव जय्यः जेतुं शक्यः स्यात् इतरेण कर्मादिसाधनान्तरेण नो । अयमर्थः “सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा" इति श्रुत्या प्रतिपादितः । पूर्वश्लोकोक्तपुत्रानुशासनावसरमनुशासनरीतिं च दर्शयति मुमूर्षुरिति। मुमूर्षु: मरणोन्मुखः पुत्रं “त्वं ब्रह्मे"त्यादि मंत्रकैः आदिशब्देन “त्वं यज्ञः” “त्वं लोकः” (बृ. १. ५• १७.) इति मंत्रौ गृह्येते । त्वं ब्रह्मेत्यादिमन्त्रकैः मंत्रयेत् अनुशिष्यात् । पुत्रस्यानुशासनं कुर्यादित्यर्थः । अनेन मरणावसर एवानुशासनावसरः मंत्रपठनमेवानुशासनरीतिरिति दर्शितम् ॥३६॥

 निरुक्तार्थे निगमयति, इतीति ।

इत्यादिश्रुतयः प्राहुः पुत्रभार्यादिशेषताम् ।
लौकिका अपि पुत्रस्य प्राधान्यमनुमन्वते ॥ ३७ ॥

 स्पष्टोऽर्थः ॥३७॥