तर्ह्यस्तु सात्विकी वृत्तिः सुखमात्रानुवर्तिनी । |
तर्हि भक्तिश्रद्धारागेच्छारूपाणां प्रीतीनां लोके प्रसिद्धानां प्रकृतेऽसंभवेऽपि तद्विरक्षणा काचित्प्रीतिर्विवक्षणीया इत्याह, अस्त्विति । सा सुखमात्रानुवर्तिनी सुखमेव सुखमात्रं । तदितरप्युदासाथो मात्रशब्दः । मुखमेवानुसृत्य वर्तत इति तथाभूता सुखैकविषयिकेत्यर्थः । सात्विकी वृत्तिः सत्वगुणात्मिका चित्रवृत्तिः प्रीति रियुच्यते । सुखमात्रानुवर्तित्वे सति चित्तस्य सात्विकवृत्तित्वं प्रीतेलक्षणमिति संपन्नम् । इच्छातस्तद्वैलक्षण्यमाह, प्राप्त इति । सुखादौ प्राप्ते लब्धे नष्टेऽपि आत्मविषये अस्याः प्रीतेः सद्भावात् विद्यमानत्वात् अप्राप्तसुखादिवस्तुविषयकेच्छातो व्यतिरिच्यते भिद्यते ॥२२॥
नन्वन्नपानादौ सुखसाधनत्वाद्यथा तव प्रीतिः तथैवात्मन्यपि प्रेमदर्श नात्तस्य सुखसाधनत्वमेवास्विति शंकते, सुखेति ।
सुखसाधनतोपाधेरन्नपानादयः प्रियाः ।। २३ ॥ |
सुखसाधनतोपाधेः सुखसंपादने कारणभूतत्वादन्नपानादयोऽस्माकं प्रियाः। यथा भवन्ति तथैवात्मापि आनुकूल्यात् सुखसाधनेऽनुकुलभूतवात् अन्नादिसमश्चेत् आत्मनोप्यन्नादिवत्सुखसाधनत्वमिति चेत् ॥ २३॥ समाधत्ते, अमुनेति ।
... ... … …अमुनात्र कः । |
अत्र अस्मिन् लोके अमुना सुखसाधनभूतेन आत्मना अन्यः कः अनुकूलयितव्यः प्रेमविषयतया कर्तव्यः स्यात् । न कोपीत्यर्थः । आत्मातिरिक्तस्य भोक्तुरभावात् । ननु मास्त्वन्योऽनुकूलयितव्यः स्वस्य स्वयमेव स्यादित्याशंक्याह; नेति । एकस्मिन्नेव आत्मनि कर्मकर्तृता युगपत् क्रियाकर्तृत्वं तत्फलभोक्तृत्वं चेति