त्पन्नवृत्तिभिर्ब्रह्मसुखं भूङ्क्ते । विज्ञानमय एवान्तर्मुख आनन्दमयरूपत्वमवाप्य सुषुप्तौ स्वरूपभूतमानन्दं चिदाभाससहितवृत्तिभिरनुभवति । अतो जाग्रत्काले रूपान्तरं प्राप्तस्य “सुखमस्वाप्स"मिति स्मर्तृत्वं युज्यत एवेति भावः ॥ ६५ ॥
ननु सुषुप्तावानदानुभवस्याज्ञानवृत्तिजन्यत्वांगीकारे जाग्रदनुभव इव सौषुप्तिकानुभवोऽपि वृत्तिजन्यत्वाविशेषेणानुभवामीति प्रतीयेतेत्याशंक्याह, अज्ञानेति ॥
अज्ञानवृत्तयः सूक्ष्मा विस्पष्ट बुद्धिवृत्तयः । |
सुषुप्तावज्ञानवृत्तयः सूक्ष्मा अज्ञानस्याव्यक्तरूपत्वात् । अतस्तदाऽनुभवो न प्रतीयते । जाग्रति तु बुद्धिवृत्तयो विस्पष्ट व्यक्ताः, बुद्धेर्व्यक्तत्वात् । तस्मात्तदानुभवः स्पष्टमेव प्रतीयते । इति वेदान्तसिद्धान्तपारगाः प्रवदन्ति । एवं च तदानींतनवृत्तीनामव्यक्तत्वात्तज्जन्यानुभवस्याप्यव्यक्ततया न प्रतीतिरिति भावः॥६६॥
सुषुप्तावानन्दमयो ब्रह्मानन्दमनुभवतीत्यत्र प्रमाणमाह, माण्डूक्येति ।
माण्डूक्यतापनीयादिश्रुतिष्वेतदतिस्फुटम् । |
स्पष्टोऽर्थः ॥ ६७॥
तत्र “सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानंदमयो ह्यानंदभुक् चेतोमुखः" इति (१.५.) माण्डूक्यवाक्यार्थमादावाचष्टे, एकीभूत इति ।
एकीभूतः सुषुप्तस्थः प्रज्ञानघनतां गतः। |
सुषुप्तस्थः सुषुप्यभिमानी, एकीभूतो विज्ञानाद्युपाधीनामुपरमादेकाकारतां गत आनन्दमयः आनंदप्रायः प्रज्ञानघनतां विज्ञानानां नीहारघन इव समष्टिभावं गतस्सन्, ‘ चेतोमयवृत्तिभिश्चैतन्यप्रचुराभिश्चैतन्यप्रतिबिंबिताभिर्वृतिभिरानंदभुक् भवत्यानंदमनुभवति ॥ ६८॥