सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

हित्वा जिज्ञासुस्सुखायते स्वस्य सुखं वेदयते “सुखादिभ्यः कर्तृवेदनाया"मिति क्यङ्प्रत्ययः ॥१॥

 तत्र प्रमाणभूतं श्रुतिद्वयमर्थत्र: पठति, ब्रह्मविदिति ।

ब्रह्मवित्परमाप्नोति शोकं तरति चात्मवित् ।
रसो ब्रह्म रसं लब्ध्वाऽऽनन्दी भवति नान्यथा ॥ २॥

 "ब्रह्मविदाप्नोति परमि"ति (तै.२-१) श्रुत्या सर्वमुमुक्षुजनप्रवृत्तिनिमि त्तात्यन्तनिःश्रेयसावाप्तिस्सर्वोपनिषत्तात्पर्यस्वेन प्रतिपाद्यते । तत्र ब्रह्मशब्देन नित्य शुद्धबुद्धमुक्तस्वभावमेकमेवाद्वितीयं परं ब्रह्माभिधीयते । “अस्तितावद्ब्रह्म नित्यशुद्ध बुद्धमुक्तस्वभावं सर्वज्ञम् सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते बृहतेर्धातोरर्थानुगमादि”ति श्रीभगवत्पादाः । ब्रह्म वेत्ति मनसा साक्षात्कारोतीति ब्रह्मवित्। ननु परं ब्रह्म मनसोऽगोचरमेव स्यात् “यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे"ति (तै.२-४)श्रुतेरिति चेन्न। घटादिवत्तदाकाराकारितबुद्धिवृत्तिजन्यफलव्याप्यत्वमेवानया तस्य निवार्यते (७-९०) "मनसैवानुद्रष्टव्यं नेह नानास्ति किंचने"ति (कठ, ४–११) ह्यऽन्यत्र समाम्नायते । मनसैवेत्यवधारणया चक्षुरादिबाह्यदृष्टिर्व्यावर्त्यते। अनुशब्दबलेन यच्छास्त्रप्रतिपादितं ब्रह्म तदेवानुसृत्यान्तर्दृष्ट्या वेदनीयमिति चावगम्यते । स्वयं प्रकाशमपरोक्षं ब्रह्म। तथापि तस्मिन् परोक्षभ्रमोऽस्तीति तन्निवृत्त्यर्थं प्रत्यगात्मनस्तस्य तादात्म्यं बोध्यते । "तस्माद्वा एतस्मादात्मन आकाशः संभूतः" । (तै. २-१) “य एवं वेदाहं ब्रह्मास्मीति । स इदं सर्वमभवत्" (बृ.१.४.१०) "यो वेद निहितं गुहायां" (तै.२-१) इत्यादिभिः । प्रत्यगात्मनस्त्वपरोक्षत्वमपंडितानामप्यहमिति मानसप्रत्यक्षेण स्पष्टमेव । देहादिपञ्चकोशेभ्यो विविक्तं प्रत्यगात्मतादात्म्येन गम्यमानं ब्रह्मपरोक्षं मनसाऽवगम्यते । ननु "यन्मनसा मनुते येनाहुर्मनो मतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” (केन. १-५) इति श्रुतेर्ब्रह्मणो मनसाऽवगतत्वमेव निषिध्यत इति चेन्न। नास्यां श्रुतौ ब्रह्मणो मनोविषयत्वं निषिध्यते । "ब्रह्म त्वं विद्धी" ति ब्रह्मणो विदिक्रियायाः कर्मत्वोक्त्ते:। अस्य मन्त्रस्यायमभिप्रायः। स्वप्रकाशमपरोक्षं साक्षिचैतन्यं देहादिपञ्चकोशेभ्यो विविच्य साक्षात्कर्तुं न हि विचारचतुरेतरः प्रभवति । किं तु १