सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४४३
कल्याणपीयूषव्याख्यासमेता

तेन मनः प्रकशितं भवतीति स मन्यते । तदेवान्तःकरणावभासकं साक्षिचैतन्यं ब्रह्मेति विज्ञातव्यम् । तत्साक्षात्कारासमर्था भन्दधियः स्वातिरिक्ततया प्रतीयमानं शास्त्रप्रसिद्धं ब्रह्मोपासते । नैतदुपास्यमुपाधिविशिष्टं मुख्यं ब्रह्म भवति । “यत्र नान्यत्पश्यति नान्यच्छूणोति नान्यद्विजानाति स भूमा । यत्रान्यत्पश्यत्यन्यच्छूणो- त्यन्यद्विजानाति तदल्पं, यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यं स भगवस्तस्मिन् प्रतिष्ठित इति स्वे महिम्ने"ति (छ. ७. २४.१) श्रुतेः । तथापि साक्षिचैतन्यं ब्रह्मेत्युपासनायां साक्षिचैतन्ये व्याप्यमाना चित्तवृत्तिपरंपराऽऽत्मब्रह्मणोर्भेदकारणी- भूतामविद्यामपाकरोति । तथा सत्यात्मब्रह्मैक्यरूपा धीवृत्तिर्महावाक्यविषयसंबम्घादेव जायत इति वाक्यजन्यं ज्ञानमप्यपरोक्षमेव । यथा बहिर्मुखः पुरुषोऽनवच्छिन्नध्यान प्रवणेन चित्तैकाग्र्येण बहिर्वस्तुनिरूपणसमर्थो भवति तथा प्रत्यगात्माकाराकारिता बुद्धिवृतिरपास्तसर्वभेदभ्रमा ब्रह्मसाक्षात्कृतवती भवति । एकमेव वस्तु ब्रह्मेति शास्त्रेण प्रतिपाद्यते । आत्मेति मानसप्रत्यक्षत्वमेति । एवं च पदद्वयोपपादिताखंडैकरसे परब्रह्मण्यपरोक्षज्ञानसिद्धेस्तथाविधज्ञानोपेतो ब्रह्मविदित्युच्यते । सः परं निरतिशयं तदेव ब्रह्म । आप्नोति प्राप्नोति । ब्रह्म ज्ञात्वा ब्रह्मैव भवतीत्यर्थः । ब्रह्मणोऽन्यस्य सर्वस्य मिथ्याभूतत्वात्; अन्यस्य विज्ञानादन्यभवनस्याऽसंभवाच्च। “स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवती"ति (मुम् ३.२.९) च श्रूयते ।

 ननु "परमाप्नोती"त्यत्र ब्रह्मलोकगमनमेवाभिहितं भवति; आप्नोतेर्गेत्यर्थकत्वात्; यथा ग्रामाद्ग्रामं प्राप्नोतीति चेन्न । ब्रह्मविदः प्राणोत्क्रमणाभावात्, “न तस्य प्राणा उत्क्रामन्त्यत्रैव समविलीयन्ते ब्रह्मैव सन् ब्रह्मप्येति (व.ता.५.) इति श्रुतेः । ननु ब्रह्मण आप्यत्वमेव न स्यात्; तस्याद्वितीयस्य सर्वस्यात्मभूतस्वादपरि- च्छिन्नत्वाच्चेति चेन्न । प्राप्तेर्दर्शनार्थापेक्षत्वात् । प्राक् ज्ञानादप्ययं जीवो ब्रह्मैव सन्नपि न तज्जानाति । अविद्ययाऽन्नमयादिपञ्चकोशानस्मत्वेन मन्यमानः स्वात्मभूतं ब्रह्म नाम्नोति । शास्त्राचार्योपदेशाभ्यां महावाक्यार्थस्य मननादिना चाहं ब्रह्मास्मीति साक्षात्करोति । कंठस्थो मणिरज्ञानेनान्विष्यमाणोऽपि नावाप्यते । तव कंठ एव भासते मणिरिति केन चित् स्मारिते कंठे हस्तेन मणिः प्राप्यते । तथैव नवगणना सक्तेन दशमेनाप्तबोधात्स्वयमेव प्राप्यते । एवमज्ञानदशायां ब्रह्म न प्राप्यते ।