तालादिधारीण्यक्षाणि दीपः साक्ष्यवभासकः ॥ १४॥ |
अस्मिन् जगन्नाटकेऽहंकारो जीवः विषयाभिमाननिमित्तमुखदुःखाभ्यां संस्पृष्टत्वात्प्रभुर्नृत्याभिमानी तत्प्रवर्तकः। विषयाः स्रक्चंदनादयस्सभ्याः । अभिमानराहित्यात्तेषां सभ्यसाम्यता । विविधविकारविशिष्ट मतिर्नर्तकी । धीविकाराननुसरन्त्यक्षाणि तालादिधारीणि । तेषां सर्वेषां युगपदवभासकः साक्षी ॥ १४॥
ननु विषयाद्यवभासकस्य साक्षिणस्तत्संसर्गसंभूतं विकारित्वं सिध्येतेत्याशंक्याह, स्वस्थानेति ।
स्वस्थानसंस्थितो दीपः सर्वतो भासयेद्यथा। |
यथा स्वस्थानसंस्थितो दीप: सर्वतः परिसरप्रदेशं तत्स्थानपि भासयेत्तथा स्थिरस्थायी स्थिरो गमनागमनशून्यः स्थायी स्थितिमात्रस्वभावो नित्यः साक्षी शरीरस्य बहिरन्तःप्रकशयेत् ॥१५॥
साक्षिणि बुद्धिचांचल्यारोपकथनम् ।
ननु परिपूर्णस्य साक्षिणो बहिरन्तरवभासकत्वाभिधानमसमंजसमित्यत आह, बहिरिति ।
बहिरन्तर्विभागोऽयं देहापेक्षो न साक्षिणि । |
अयं बहिरन्तर्विभागो देहापेक्षो देहमपेक्ष्यैव कृतः; साक्षिणि तु न नास्त्येव। देहापेक्षं बाह्याभ्यन्तरत्वमुक्तमित्यर्थः। एवं सति देहस्यान्तरः कः? बाह्यः कः? इत्याशंक्याह, विषया इति । विषया देहस्य बाह्यदेशस्थाः, तस्यान्तरहंकृतिः॥१६॥
ननु "स्थिरस्थायी तथा साक्षी बहिरन्तः प्रकाशयेदि”ति साक्षिणो निर्विकारस्य स्थिरस्थायिनो बहिरन्तःप्रकाशकत्वमयुक्तमेव, घटमहं पश्यामी- त्यत्र साक्षी अहमिति चिदाभासं प्रथमतः प्रकाशयति । मन इन्द्रियद्वारा घटादिबाह्यवस्तु चानन्तरं स्फोरयति; एवं तस्य साक्षिणो गमनागमने अनुभू-