सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२८
[ध्यानदीप
पञ्चदशी

 निर्गुणब्रह्मणः सम्यगुपासीनस्य इह वा अस्मिन् जन्मनि परत्र मरणे वा अथवा ब्रह्मलोके वा ब्रह्मसाक्षात्कृतिः ब्रह्मापरोक्षज्ञानं अवश्यं भवेत् ॥ १५०॥

 आत्मतत्वविचाराक्षमस्योपासनेऽधिकार इत्यादि आत्मगीतायामुदाहृतमित्याह, अर्थ इति ।

अर्थोऽयमात्मगीतायामपि स्पष्टमुदीरितः ।
विचाराक्षम आत्मानमुपासीतेति सन्ततम् ॥ १५१ ॥

 स्पष्टोऽर्थ: ॥१५१॥

 तानि वाक्यान्युदाहरति, साक्षादिति ।

साक्षात्कर्तुमशक्तोऽपि चिन्तयेन्मामशंकितः ।
कालेनानुभवारूढो भवेयं फलितो ध्रुवम् ॥ १५२ ॥

 मां परमात्माभिन्न निर्गुणत्वेन साक्षात्कर्तुमशक्तोऽपि अशंकितः वीतसंदेहस्सन् चिन्तयेत् निष्कामतया मम निर्गुणस्त्ररूपं मनस्युपासीत । किं तेन ? चिरकालचिन्तनेन कालेन गच्छता काले परिपाके सति अनुभवारूढः निरन्तराभ्यासानुभवेन चिन्तकस्य मनसि सम्यगारूढः संस्थापितः फलितो भवेयमिति ध्रुवम् ॥ १५२॥

 ध्यानस्य सम्यग्ज्ञानसंपादने व्यतिरेकदृष्टान्तमाह, यथेति ।

यथाऽगाथनिधेर्लब्धौ नोपायः खननं विना ।
मल्लाभेऽपि तथा स्वात्मचिन्तां मुक्त्वा न चापरः॥१५३॥

 स्पष्टोऽर्थः ॥१५३ ॥

 अगाथनिध्युदाहरणमन्वयमुखेन दर्शयति, देहेति ।

देहोपलमपाकृत्य बुद्धिकुद्दालकात्पुनः ।
खात्वा मनोभुवं भूयो गृह्णीयान्मां निधिं पुमान् ॥१५४॥

 पुनः पुनः बुद्धिकृद्दाळकात् बुद्धिरेव कुद्दालकं खननसाधनविशेषः तस्मा-